________________
प्रातिपदिकखरप्रक्रिया ।
३५१ प्राग्वत् । दाक्षेः पिता यजते । स्यान्तस्योपोत्तमं च * ॥ चादन्तस्तेन द्वावुदात्तौ । गार्ग्यस्य पिता यजते ॥ वा नामधेयस्य * ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ॥ देवब्रह्मणोरनुदात्तः ।।२।३८ ॥ अनयोः खरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवा ब्रह्माण आगच्छत ॥ खरितात्संहितायामनुदात्तानाम् ।।२॥३९॥ खरितात्परेषामनुदात्तानां संहितायामेकश्रुतिः स्यात् । इमं मे गङ्गे यमुने सरस्वति ॥ उदात्तखरितपरस्य सन्नतरः ।।२।४०॥ उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यानुदात्ततरः स्यात् । सरस्वति शुतुद्रि। व्यचक्षयत्वः ॥ तस्य परमानेडितम् ॥ अनुदात्तं च ।८।१॥३॥ द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवेदिवे ॥
॥ इति साधारणखराः ॥ धातोः ।।११६२॥ अन्त उदात्तः स्यात् । गोपायतं नः । असि सत्यः ॥ स्वपादिहिंसामच्यनिटि ।६।१।१८८ ॥ खपादीनां हिंसेश्चानिट्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । खपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययवरेण मध्योदात्तता । कित्येवेष्यते । नेह । खपानि । हिनसानि ॥ अभ्यस्तानामादिः।६।। १८९ ॥ अनिट्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु । परत्वाच्चित्वरमयं बाधते । दधाना इन्द्रे ॥ अनुदात्ते च ।६।१।१९०॥ अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे ॥ भीहीभृहमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ।।१।१९२ ॥ भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति । ममत्तु नः परिज्मा । माता यद्वीरं दधनत् । जागर्षि त्वम् ॥ लिति ।६।१।१९३ ॥ प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ॥
आदिर्णमुल्यन्यतरस्याम् ।६।१।१९४ ॥ अभ्यस्तानामादिरुदात्तो वा णमुलि परे । लोलूयलोलूयम् । पक्षे लित्वरः ॥ अचः कर्तृयकि ।६।१।१९५॥ उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ॥ चङयन्यतरस्याम् ।।१।२१८॥ चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चकुदात्तः ॥
॥ इति धातुखराः ॥ कर्षाऽऽत्वतो घोऽन्त उदात्तः ।६।१११५९ ॥ कर्षतेर्धातोराकारवतश्च घअन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः पाकः ॥ उञ्छादीनां च ।।१।१६० ॥ अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे । अन्यत्र योगेयोगे तवस्तरम् । भक्षशब्दो घजन्तः । गावः सोमस्य प्रथमस्य भक्षः । उत्तमशश्वत्तमावपि ।
१ उञ्छ, म्लेच्छ, जञ्ज, जल्प, जप, बध, युग, गुरो, दूष्ये, वेगवेदवेष्टबन्धाः करणे, स्तुयुद्रुवश्छन्दसि, वर्तनि स्तोत्रे,श्वभ्रे दरः, साम्बतापौ भावगर्हायाम् , उत्तमशश्वत्तमौ सर्वत्र, भक्षमन्थगोमन्था इत्यञ्छादिः॥