________________
३५०
सिद्धान्तकौमुद्याम् परशरीरानुप्रवेशे पाष्ठिकमामन्त्रितायुदात्तत्वम् । न चाष्टमिको निघातः शङ्कयः । पूर्वामत्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्तभोजनम् । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् ॥ षष्ठ्यामन्त्रितकारकवचनम् * ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनेह न । अयमग्ने जरिता । एतेनाग्ने ब्रह्मणा । समर्थानुवृत्त्या वा सिद्धम् ॥ पूर्वाङ्गवच्चेति वक्तव्यम् * ॥ आ ते पितर्मरुताम् । प्रति त्वा दुहितर्दिवः ॥ अव्ययानां न * ॥ उच्चैरधीयान ॥ अव्ययीभावस्य त्विष्यते * ॥ उपाम्यधीयान ॥ उदात्तखरितयोर्यणः स्वरितोऽनुदात्तस्य ।८।२।४॥ उदात्तस्थाने खरितस्थाने च यो यण् ततः परस्यानुदात्तस्य खरितः स्यात् । अभ्यभि हि । खरितस्य यणः । खलप्ठ्याशा । अस्य खरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिधातो न ॥ एकादेश उदात्तेनोदात्तः ।८२।५॥ उदात्तेन सहैकादेश उदात्तः स्यात् । वोश्वाः । क्वावरं मरुतः ॥ खरितो वानुदात्ते पदादौ ।८।२।६ ॥ अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः खरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी ३ दं ज्योतिर्हृदये । अस्य श्लोको दिवीयते । व्यवस्थितविभाषात्वादिकारयोः खरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तादिति पूर्वरूपे खरित एव । तेऽवदन् । सो ३ यमागात् । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे झैप्राभिनिहतेषु चेति ॥ उदात्तादनुदात्तस्य स्वरितः ८॥४॥६६॥ उदात्तात्परस्यानुदात्तस्य खरितः स्यात् । अग्निमीळे । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः ॥ नोदात्तखरितोदयमगाग्र्यकाश्यपगालवानाम् ।८४।६७ ॥ उदात्तपरः खरितपरश्चानुदात्तः खरितो न स्यात् । गाादिमते तु स्यादेव । प्र य आरुः । वोऽश्वाः वा ३ भीशवः ॥ एकश्रुति दूरात्संबुद्धौ ।।२।३३ ॥ दूरात्संबोधने वाक्यमेकश्रुति स्यात् । त्रैखर्यापवादः । आगच्छ भो माणवक ॥ यज्ञकर्मण्यजपन्यूंखसामसु ।१२।३४ ॥ यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूर्धा दिवः ककुत् । यज्ञेति किम् । खाध्यायकाले त्रैवर्यमेव । अजपेति किम् । ममाने व! विहवेप्वस्तु । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ॥ उच्चैस्तरां वा वषट्कारः ।।२।३५ ॥ यज्ञकर्मणि वौषट्शब्द उच्चैस्तरां वा स्यादेकश्रुतिर्वा ॥ विभाषा छन्दसि ।।२।३६ ॥ छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैवर्यम् । ब्राह्मणे एकश्रुतिर्बढचानाम् । अन्येषामपि यथासंप्रदाय व्यवस्था ॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।१।२।३७ ॥ सुब्रह्मण्याख्ये निगदे यज्ञकर्मणीति विभाषा छन्दसीति च प्राप्ता एकश्रुतिर्न स्यात्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो ३ म् ॥ [ सुब्रह्मणि साधुरिति यत् । न च 'एकादेश उदात्तेनोदात्तः ३६५८' इति सिद्धे पुनरत्रेदमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः । ] असावित्यन्तः * ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्यो यजते । जित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते ॥ अमुष्येत्यन्तः ॥ षष्ठ्यन्तस्यापि