________________
वैदिकीप्रक्रिया ।
३४७
संमतिको कुत्सनेषु |८|२| १०३ ॥ स्वरितः लुतः स्यादाम्रेडिते परेऽसूयादौ गये । असूयायाम् । अभिरूपक ३ अभिरूपक रिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक ३ अभिरूपक शोभनोऽसि । कोपे । अविनीतक ३ अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक ३ शाक्तीक रिक्ता ते शक्तिः ॥ क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् |८|२| १०४ ॥ आकाङ्क्षस्य तिङन्तस्य टेः खरितः प्लुतः स्यात् आचारभेदे । स्वयं ह रथेन याति ३ उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रांश्च लप्सीष्ट ३ धनं च तात । व्यापारणे । कटं कुरु ३ ग्रामं गच्छ । आकाङ्क्ष किम् । दीर्घायुरसि । अग्नीदमीन्विहर || अनन्त्य - स्यापि प्रश्नाख्यानयोः | ८|२| १०५ || अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत एतयोः । अगमः ३ पूर्वा ३ न् ग्रामा ३ न् । सर्वपदानामयम् । आख्याने । अगम ३ म् पूर्वा ३ न् ग्रामा ३ न् ॥ लुतावैच इदुतौ |८|२|१०६ ॥ दूराद्भूतादिषु लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ लवेते । ऐ ३ तिकायन । औ ३ पगव । चतुर्मात्रावत्र ऐचौ सम्पद्येते ॥ एचोऽप्रगृह्यस्यादूराद्भूते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ |८|२|१०७ ॥ अप्रगृह्यस्य एचोऽदूराद्भूते लुतविषये पूर्वस्यार्धस्याकारः लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव * ॥ प्रश्नान्ते । अगम: ३ पूर्वा ३ न् ग्रामा३न् । अग्निभूता ३ इ । अभिपूजिते । करोषि पटा ३ उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृहा ३ इ । न होतव्य ३ मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूता ३ इ । याज्यान्ते । स्तोमैर्विधेमाग्नया ३ इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अदूराद्भूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माले || आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः * ॥ अग्ना ३ इ पत्नी वः ॥ तयोर्खावचि संहितायाम् ।८।२।१०८॥ इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न ३ याशा । पट ३ वाशा । अम्न ३ यिन्द्रम् । पट ३ वुदकम् । अचि किम् । अम्मा ३ इ वरुणौ । संहितायां किम् । अम्मा ३ इ इन्द्रः । संहितायामित्याध्याय समाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्ण - दीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वादुदात्तस्वरितयोर्यणः खरितोऽनुदात्त - स्येत्यस्य बाधनार्थो वा । मतुवसो रु संबुद्धौ छन्दसि |८|३|१ || रुइत्यविभक्तिको निर्देशः । मत्वन्तस्य वखन्तस्य चरुः स्यात् । अलोऽन्त्यस्येति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् । हरिवो मेदिनं त्वा । छन्दसीर इति वत्वम् ॥ दाश्वान्साहामी | ६|१|१२ ॥ एते कखन्ता निपात्यन्ते । मीस्तोकाय तनयाय ॥ वन उपसंख्यानम् * ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः । इणः क्वनिप् ॥ उभयथर्क्ष |८|३|८ || अम्परे
1
१ क्षिया आचारोलङ्घनम् । इष्टप्रार्थनमाशीः । प्रैषः प्रेषणम् ॥