________________
सिद्धान्तकौमुद्याम् था।८८ ॥ ये ३ यजामहे । यज्ञेति किम् । ये यजामहे ॥ प्रणवष्टेः ।।२।८९॥ यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिन्वतो ३ म् । टेः किम् । हलन्ते अन्त्यस्य मा भूत् ॥ याज्यान्तः ।।२।९०॥ ये याज्या मन्त्रास्तेषामन्त्यस्य टेः प्लुतो यज्ञकर्मणि । जिह्वामने चकृषे हव्यवाहा ३ म् । अन्तः किम् । याज्यानामृचां वाक्यसमुदायरूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेष्यते ॥ ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः।८।२।९१ ॥ एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू ३ हि । अग्नये गोमयानि प्रे ३ प्य । अस्तु श्रौ ३ षट् । सोमस्याग्ने वीही वौ ३ षट् । अग्निमा ३ वह ॥ अग्नीत्प्रेषणे परस्य च ।८।२।९२ ॥ अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ ३ श्रा ३ वय ॥ विभाषा पृष्टप्रतिवचने हेः ।८।२।९३ ॥ प्लुतः । अकार्षीः कटम् । अकार्ष हि ३ । अकार्ष हि । पृष्टेति किम् । कटं करिष्यतिहि । हेः किम् । कटं करोति ननु ॥ निगृह्यानुयोगे च ।८।२।९४ ॥ अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ ३। अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ॥ आम्रडितं भर्सने ।८।२।९५ ॥ दस्यो ३ दस्यो ३ घातयिष्यामि त्वाम् । आमेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर चौर ३ ॥ अङ्गयुक्तं तिङाकाङ्क्षम् ।।२।९६ ॥ अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज ३ इदानीं ज्ञास्यसि जाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्गं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ॥ विचार्यमाणानाम् ।।२।९७ ॥ वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा ३ इ । न होतव्य ३ मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ॥ पूर्व तु भाषायाम् ।८।२।९८ ॥ विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु ३ रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते॥प्रतिश्रवणे च ।८।२।९९ ॥ वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्य च । गां मे देहि भोः । हन्त ते ददामि ३ । नित्यः शब्दो भवितुमर्हति । दत्त किमात्थ ३ ॥ अनुदात्तं प्रश्नान्ताभिपूजितयोः ।८२।१०० ॥ अनुदात्तः प्लुतः स्यात् । दूराद्भूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अभिभूत ३ इ । पट ३ उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक ॥ चिदिति चोपमार्थे प्रयुज्यमाने ।८२।१०१॥ वाक्यस्य टेरनुदात्तः प्लुतः । अमिचिद्भाया ३ त् । अमिरिव भायात् । उपमार्थे किम् । कथंचिदाहुः । प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ॥ उपरिखिदासीदिति च ।८।२।१०२॥ टेः प्लुतोऽनुदात्तः स्यात् । उपरिखिदासी ३ त् । अधःखिदासी ३ दित्यत्र तु विचार्यमाणानामित्युदात्तः प्लुतः ॥ खरितमानेडितेऽसूया
१ अत्र येशब्दो ये यजामह इति वाक्यघटितो गृह्यते । भाष्ये सर्वत्रातिप्रसङ्गमाशक्य सिद्धं तु ये यजामह इत्यस्य ब्रूह्यादिषूपसंख्यानमित्युक्तत्वात् ॥