________________
३४५
त्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोद विद्युतत्तरित्रतः सरिसृपतंवरीवृजन्मर्मृज्याऽऽगनीगन्तीति च |७|४/६५ ॥ एतेऽष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिः शेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङि चलेरङ् द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुषम् । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु । ध्वरतेर्यइलुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य । तेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः । तरतेः शतरि ल अभ्यासस्य रिगागमः । सहोर्जा तरित्रतः । सृपेः शतरि लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि लावभ्यासस्य रीक् । मृजेर्लिटि णल अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदाssगनीगन्ति कर्णम् ॥ ससूवेति निगमे | ७|४|७४ || सूतेर्लिटि परस्मैपदं वुगागमोऽऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् । सुषुवे इति भाषायाम् ॥ बहुलं छन्दसि । ७४।७८ ॥ अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि । वशेरेतद्रूपम् ॥
॥ इति सप्तमोऽध्यायः ॥
वैदिकीप्रक्रिया ।
प्रसमुपोदः पादपूरणे | ८ | ११६ ॥ एषां द्वे स्तः पादपूरणे । प्रप्रायमग्निः । संसमिध्रुवसे । उपोप मे परामृश । किं नोदुदु हर्षसे ॥ छन्दसीरः |८|२|१५ ॥ इवर्णान्ताफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय । गीर्वान् ॥ अनो नुट् |८|२| १६ ॥ अन्नन्तान्मतोर्नुट् स्यात् । अक्षण्वन्तः कर्णवन्तः । अस्थन्वन्तं यदनस्था ॥ नाद्वस्य |८|२| १७ ॥ नान्तात्परस्य घस्य नुट् । सुपथिन्तरः || भूरिदान्नस्तुवाच्यः * ॥ भूरिदावत्तरो जनः ॥ ईद्रथिनः * ॥ रथीतरः । रथीतमं रथीनाम् || नसत्तनिषत्तानुत्तप्रतूर्तसूर्त
निच्छन्दसि ||२/६१ || सदर्न पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निषत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गूरी इत्यस्य ॥ अन्नरूधरवरित्युभयथा छन्दसि | ८ | २|७० ॥ रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊधएव । ऊधरेव । अवएव । अवरेव ॥ भुवश्च महाव्याहृतेः |८|२२७१ ॥ भुवइति । भुवरिति ॥ ओमभ्यादाने ८ २८७ || ओमशब्दस्य प्लुतः स्यादारम्भे । ओ३म् अग्निमीळे पुरोहितम् । अभ्यादाने किम् । ओमित्येकाक्षरम् ॥ ये यज्ञकर्मणि
४४