________________
३४४
सिद्धान्तकौमुद्याम् र्वाय । यदमिरमये ददात् ॥ मीनातेनिगमे ७३२८१॥ शिति हखः । प्रमिणन्ति व्रतानि । लोके प्रमीणन्ति ॥ अस्तिसिचोऽपृक्ते ॥ बहुलं छन्दसि ।।३।९७ ॥ सर्वमा इदम् । आसीदिति प्राप्ते । [अस्तेर्लङ् ति ईडभाव अपृक्तत्वा द्धल्ङ्यादिलोपः । रुत्वविसौ । संहितायां तु 'भो भगो-१६७' इति यत्वम् । 'लोपः शाकल्यस्य ६७' इति यलोपः । गोभिरक्षाः । सि च इडभावच्छान्दसः । अट् । शेषं पूर्ववत् । हखस्य गुणः । जसि च जसादिषु छन्दसि वावचनं प्राङ् णौचङ्युपधायाः * ॥ अधा शतक्रत्वो यूयम् । शतक्रतवः । पश्वे नृभ्यो यथा गवे । पशवे ॥ नाभ्यस्तस्याचीति निषेधे बहुलं छन्दसीति वक्तव्यम् * ॥ अनुषग्जुजोषत् ॥ नित्यं छन्दसि॥४८॥ छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधत् ॥ न छन्दस्यपुत्रस्य ।७।४।३५ ॥ पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदी? न । मित्रयुः । क्याच्छन्दसीति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः ॥ अपुत्रादीनामिति वाच्यम् * ॥ जनीयन्तोऽन्वग्रवः । जनमिच्छन्त इत्यर्थः ।। दुरस्युर्द्रविणस्युर्वृषण्यतिरि षण्यति ७४४॥३६॥ एते क्यचि निपात्यन्ते । भाषायां तु उप्रत्ययाभावात् । दुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ॥ अश्वाघस्यात् ।।४।३७ ॥ अश्व अघ एतयोः क्यचि अत्स्याच्छन्दसि । अश्वायन्तो मघवन् । मा त्वा वृका अघायवः । न च्छन्दसीति निषेधो न ईत्वमात्रस्य किंतु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ॥ देवमुम्नयोर्यजुषि काठके ।४३८ ॥ अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हवामहे । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः । तेन ऋगात्मकेऽपि मन्ने यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति स चेन्मन्नो यजुषि कठशाखायां दृष्टः । यजुषीति किम् । देवाञ्जिगाति सुम्नयुः । बढ़चानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः ॥ कव्यध्वरपृतनस्यर्चि लोपः॥४॥३९॥ एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः । अध्वर्यु वा मधुपाणिम् । दमयन्तं पृतन्युम् ॥ दधातेर्हिः जहातेश्च क्त्वि ॥ विभाषा छन्दसि
७।४।४४॥ हित्वा शरीरम् । हीत्वा वा ॥ सुधित वसुधित नेमधित धिष्व धिषीय च ॥४॥४५॥ सु वसु नेम एतत्पूर्वस्य दधातेः क्तप्रत्यये इत्वं निपात्यते । गर्भ माता सुधितं वक्षणासु । वसुधितमनौ । नेमधिता न पौंस्या ॥ क्तिन्यपि दृश्यते । उत श्वेतं वसुधिति निरेके । धिष्व वजं दक्षिण इन्द्र हस्ते । धत्खेति प्राप्ते । सुरेता रेता धिषीय ॥ आशीर्लिङि इट् । इटोऽत् । धासीयेति प्राप्ते ॥ अपो भि ॥ मासश्छन्दसीति वक्तव्यम् * ॥ माद्भिः शरद्भिः ॥ खवःखतवसोरुषसश्चेष्यते * ॥ खवद्भिः । अवतेरसुन् । शोभनमवो येषां - ते खवसस्तैः । तु इति सौत्रो धातुस्तस्मादसुन् । खं तवो येषां तैः स्वतवद्भिः । समुषद्भिरजायथाः । मिथुनेऽसिः । वसेः किच्चेत्यसिप्रत्यय इति हरदत्तः । पञ्चपादीरीत्या तु उषः किदिति प्राग्व्याख्यातम् ॥ न कवतेर्यङि ॥ कृषेश्छन्दसि ॥४६४ ॥ यङि अभ्यासस्य चुत्वं न । करीकृष्यते ॥ दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्तेऽलाऽऽपनीफण