________________
३४२
सिद्धान्तकौमुद्याम् धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घः । या सुरथा रथीतमोभा देवा दिविस्पृशा। अश्विना । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताब्राह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा । यमिति प्राप्ते । न युष्मे वाजबन्धवः । अस्से इन्द्राबृहस्पती । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा । व्यवस्थावदङ्ग । आङो ड्या । साधुया । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल ॥ इयाडि. याजीकाराणामुपसंख्यानम् * ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् । डेरीकार इत्याहुः । तत्रायुदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् डेलृक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ॥ आङयाजयारामुपसंख्यानम् * ॥ प्र बाहवा सिसृतम् । बाहुनेति प्राप्ते आङादेशः । घेडिंतीति गुणः । खप्नया । खमेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया । नावेति प्राप्ते अयार् । रित्स्वरः ॥ अमो मश ७११४०॥ मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः अस्तिसिच इति ईट् । वधी वृत्रम् । अवधिषमिति प्राप्ते ॥ लोपस्त आत्मनेपदेषु ॥१॥४१॥ छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मनेति किम् । उत्सं दुहन्ति ॥ ध्वमो ध्वात् ७१।४२ ॥ अन्तरेवोष्माणं वारयध्वात् । वारयध्वमिति प्राप्ते ॥ यजध्वनमिति च ७५११४३ ॥ एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः । वकारस्य ककारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥ तस्य तात् ।११।४४ ॥ लोटो मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते । सूर्य चक्षुर्गमयतात् । गमयतेति प्राप्ते ॥ तप्तनतनथनाश्च ७१॥४५॥ तस्येत्येव । शृणोत ग्रावाणः । शृणुतेति प्राप्ते तप् । सुनोतन पचत ब्रह्मवाहसे । दधातन द्रविणं चित्रमस्मे । तनप् । मरुतस्तज्जुजुष्टन । जुषध्वमिति प्राप्त व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवासो मरुतो यतिष्ठेन । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छन्दसो डतिः । अस्तेस्तस्य थनादेशः ॥ इदन्तो मसि ॥११४६ ।। मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकाररूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि । त्वमस्माकं तव स्मसि । इमः स्मः इति प्राप्ते ॥ क्त्वो यक् ७११४७ ॥ दिवं सुपर्णो गत्वाय ॥ इष्टीनमिति च ७११४८ ॥ क्त्वाप्रत्ययस्य ईनम् अन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ॥ स्लाव्यादयश्च ।७।११४९ ॥ आदिशब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते । खिन्नः स्नात्वी मलादिव । पीत्वी सोमस्य वावृधे । स्नात्वा पीत्वेति प्राप्ते ॥ आजसेरसुक् ७१।५० ॥ अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः ।
१ सुषामादित्वात् षत्वम् ॥