________________
वैदिकीप्रक्रिया ।
३४१ तक्षाणौ ॥ जनिता मन्त्रे ।।४।५३ ॥ इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता ॥ शमिता यज्ञे ।।४।५४ ॥ शमयितेत्यर्थः ॥ युप्लुवोर्दीर्घश्छन्दसि ।। ४॥५८ ॥ ल्यपीत्यनुवर्तते । वियूय । विप्लूय ॥ आडजादीनाम् ॥ छन्दस्यपि दृश्यते ।६३।७३ ॥ अनजादीनामित्यर्थः । आनट् । आवः ॥ न माङयोगे॥ बहुलं छन्दस्यमाङयोगेऽपि वा४७५ ॥ अडाटौ न स्तः । माङयोगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय । मा वः क्षेत्रे परबीजान्यवाप्सुः ॥ इरयो रे ।।४।७६ ॥ प्रथमं दध्र आपः । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावः । तदर्थ च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ॥ छन्दस्युभयथा ।६।४।८६॥ भूसुधियोर्यण् स्यादियकुवङौ च । वनेषु चित्रं विभ्वम् । विभुवं वा । सुध्यो हव्यमग्नेः । सुधियो वा । तन्वादीनां छन्दसि बहुलम् * ॥ तन्वं पुषेम । तनुवं वा । त्र्यम्बकम् । त्रियम्बकम् ॥ तनिपत्योश्छन्दसि ।६।४।९९ ॥ एतयोरुपधालोपः किति प्रत्यये । वितलिरे कवयः । शकुना इव पप्तिम भाषायां वितेनिरे । पेतिम ॥ घसिभसोर्ह लि च ।६।४।१००॥ सग्धिश्च मे । बब्धां ते हरी धानाः ॥ हुझल्भ्यो हेर्धिः ॥ श्रुशृणुपृकृवृभ्यश्छन्दसि ।६।४।१०२॥ श्रुधी हवम् । शृणुधी गिरः । रायस्पूर्धि । उरुणस्कृधि । अपावृधि ॥ वा छन्दसि ।।४।८८॥ हिरपिद्वा ॥ अडिन्तश्च ।।४।१०३॥ हेधिः स्यात् । रारन्धि । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि । युयोधि जातवेदः । यमेः शपो लुक् । यौतेः शपः श्लुः ॥ मवेष्वाङयादेरात्मनः।६।४।१४१॥ आत्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु ॥ विभाष|श्छन्दसि ।६४।१६२॥ ऋतुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठमेयस्सु । त्वं रजिष्ठमनुनेषि । ऋजिष्ठं वा ॥ ऋव्यवास्तव्यवास्त्वमाध्वीहिरण्ययानि छन्दसि ।।४।९७५ ।। ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् । वास्त्वं च । मधुशब्दस्याणि स्त्रियां यणादेशो निपात्यते । माध्वीनः सन्त्वोषधीः । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन ।
॥ इति षष्ठोऽध्यायः॥ शीडो रुट् ॥ बहुलं छन्दसि ॥१८॥ रुडागमः स्यात् । लोपस्त आत्मनेपदेष्विति पक्षे तलोपः । धेनवो दुहे । लोपाभावे घृतं दुहृते । अदृश्रमस्य ॥ अतो भिस ऐम् ॥ बहुलं छन्दसि ।।११०॥ अग्निदेवेभिः ॥ नेतराच्छन्दसि ॥१॥२६॥ खमोरदड् न । वात्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् ॥ समासेज्नपूर्वे क्त्वो ल्यप् ॥ क्त्वापि छन्दसि ॥१॥३८ ॥ यजमानं परिधापयित्वा ॥ सुपां सुलुकपूर्वसवर्णाच्छेयाडाड्यायाजालः॥१॥३९॥ ऋजवः सन्तु पन्थाः । पन्थान इति प्राप्ते सुः । परमे व्योमन् । व्योमनि इति प्राप्ते डेलृक् । धीती । मती । सुष्टुती ।
१ तुजादित्वादिति भावः ॥