________________
३४०
सिद्धान्तकौमुद्याम् थासि च ।।१।१२१ ॥ अनुदात्ते अकारादौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुद्रेभ्यो अवपथाः । वपेस्थासि लङि तितिङ इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुदेभ्योऽवपथाः । निपातैर्यद्यदीति निघातो न ॥ आङोऽनुनासिकश्छन्दसि ।।१। १२६॥ आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । अभ्र आँ अपः । गभीर आँ उग्रपुत्रे । ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः * ॥ ईषाअक्षो हिरण्ययः । ज्या इयम् । पूषा अविष्टु ॥ स्यश्छत्दसि बहुलम् ।६१।१३३ ॥ स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः ॥ हवाचन्द्रोत्तरपदे मळे ।६।१।१५१ ॥ हखात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्ने । हरिश्चन्द्रो मरुद्गणः । सुश्चन्द्र दस्म ॥ पितरामातरा च छन्दसि ।६।३३ ॥ द्वन्द्वे निपातः । आ मा गन्तां पितरा मातरा च । चाद्विपरीतमपि । न मातरा पितरा नू चिदिष्टौ ॥ समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ।३।३।८४ ॥ समानस्य सः स्यान्मूर्धादिभिन्ने उत्तरपदे । सगर्थ्यः । छन्दसि स्त्रियां बहुलम् * ॥ विष्वग्देवयोरयादेशः । विश्वाची च घृताची च । देवद्रीची नयत देवयन्तः । कद्रीची ॥ सध मादस्थयोश्छन्दसि ।।३।९६ ॥ सहस्य सधादेशः स्यात् । इन्द्रत्वास्मिन्त्सधमादे । सोमः सधस्तम् ॥ पथि च छन्दसि ।६।३।१०८ ॥ पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ॥ साढ्ये सादा साढेति निगमे ।६।३।११३ ॥ सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुनः पृतनासु साह्वा । अचोर्मध्यस्थस्य डस्य ळः ढस्य हश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य खरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्वकारतामेति स एवं चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ॥ छन्दसि च ।६३।१२६ ॥ अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी ॥ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ।६३।१३१ ॥ दीर्घः स्यान्मने । अश्वावती सोमावतीम् । इन्द्रियावान्मदिन्तमः । विश्वकर्मणा विश्वदेव्यावता ॥ ओषधेश्च विभक्तावप्रथमायाम् ।।३।१३२ ॥ दीर्घः स्यान्मन्त्रे । यदोषधीभ्यः । अदधात्योषधीषु ॥ ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम् ।।३।१३३ ॥ दीर्घः स्यात् । आतू न इन्द्र । नु मर्तः । उत वा घा स्यालात् । मक्षू गोमन्तमीमहे । भरता जातवेदसम् । तङिति थादेशस्य ङित्त्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः । कूमनाः । अत्रा ते भद्रा । यत्रा नश्चक्रा । उरुष्याणः ॥ इकः सुजि ।६।३।१३४ ॥ ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् । सुञ इति षः । नश्च धातुस्थोरुषुभ्य इति णः ॥ यचोऽतस्तिङः।६।३।१३५॥ मन्ने दीर्घः । विद्मा हि चक्रा जरसम् ॥ निपातस्य च ।६।३।१३६ ॥ एवा हि ते ॥ अन्येषामपि दृश्यते ।६।३।१३७ ॥ अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः । दण्डादण्डि । छन्दस्युभयथा ।६४।५॥ नामि दीर्थों वा । धाता धातृणामिति बहुचाः । तैत्तिरीयास्तु हखमेव पठन्ति ॥ वा षपूर्वस्य निगमे ।६।४।९॥ षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे। ऋभुक्षाणम् । ऋभुक्षणम् । निगमे किम् । तक्षा ।