________________
वैदिकीप्रक्रिया।
३३९ निचाय्य ॥ अपस्पृधेथामाऋचुरानृहुश्चिच्युषेतित्याजाताश्रितमाशीराशीर्ताः ।३।१॥३६॥ एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेथाम् । स्पर्धेलङि आथाम् । अर्कमानृचुः । वसून्यानृहुः । अर्चरहेंश्च लिट्युसि । चिच्युषे । च्युङो लिटि थासि । यस्तित्याज । त्यजेलि। श्रातास्त इन्द्र सोमाः। श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे । मध्यत आशीर्तः । श्रीन एव विपि निष्ठायां च ॥ खिदेश्छन्दसि ।६।१।५२ ॥ खिद दैन्ये । अस्यैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥ शीर्षश्छन्दसि ।।१।६०॥ शिरःशब्दस्य शीर्षन् स्यात् । शीर्णः शीर्णो जगतः ॥ वा छन्दसि ।६।१।१०६॥ दीर्घाज्जसि इ चि च पूर्वसवर्णदी| वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमी च शम्यं च । सूर्म्य सुषिरामिव । संप्रसारणाचेति पूर्वरूपमपि वा। इज्यमानः । यज्यमानः ॥ शेश्छन्दसि बहुलम् ।६।११७०॥ लोपः स्यात् । या ते गात्राणाम् । ता ता पिण्डानाम् ॥ एमन्नादिषु छन्दसि पररूपं वक्तव्यम्* ॥ अपां त्वेमन् । अपांत्वोद्मन् ॥ भय्यप्रवय्ये च छन्दसि ।।१।८३ ॥ बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् ॥ हृदय्या उपसंख्यानम् * ॥ हृदे भवा हृदय्या आपः । भवे छन्दसि यत् ॥ प्रकृत्यान्तःपादमव्यपरे ।६।१।११५॥ ऋपादमध्यस्थ एङ् प्रकृत्या स्यात् अति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् । सुजाते अश्वसूनृते । अन्तःपादं किम् । एतास एतेऽर्चन्ति । अव्यपरे किम् । तेऽवदन् ॥ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ।६।१।११६॥ एषु व्यपरेऽप्यति एङ्ग प्रकृत्या । वसुर्भिनो अव्यात् । मित्रमहो अवद्यात् । मा शिवासो अवक्रमुः। ते नो अव्रत । शतधारो अयं मणिः । ते नो अवन्तु । कुशिकासो अवस्यवः । यद्यपि बढ्चैस्तेनोऽवन्तु स्थतः । सोऽयमगात् । तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥ यजुष्युरः ।६।११११७॥ उरःशब्दः एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् । यजुषि पादाभावादनन्तःपादार्थ वचनम् ॥ आपो जुषाणो वृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे ।६।१।११८ ॥ यजुषि अति प्रकृत्या । आपो अस्मान्मातरः । जुगाणो अग्निराज्यस्य । वृष्णो अंशुभ्याम् । वर्षिष्ठे अधि नाके । अम्बे अम्बाले अम्बिके । अस्मादेव वचनादम्बार्थेति हखो न ॥ अङ्ग इस्यादौ च ।६।१।११९ ॥ अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥ अनुदात्ते च कुधपरे ।६।१।१२०॥ कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अमिः । अयं सो अध्वरः । अनुदात्ते किम् । अथोऽग्रे रुदे । अग्रशब्द आधुदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥ अवप
१ कयामती कुत एतास एतेऽर्चन्ति शुष्मं वृषणे वसया॥
।