________________
३३८
सिद्धान्तकौमुद्याम् छन्दसि च ।।१।६७ ॥ प्रातिपदिकमात्रात्तदर्हतीति यत् । सादन्यं विदथ्यम् ॥ वत्सरान्ताच्छश्छन्दसि ।।१।९१ ॥ निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥ संपरिपूर्वात्व च ।।१।२२॥ चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥ छन्दसि घस् ।।१।१०६॥ ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥ उपसर्गाच्छन्दसि धात्वर्थे ।५।११११८॥ धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवतः । उद्गतान्निर्गतादित्यर्थः ॥ थट् च छन्दसि ।।२।२० ॥ नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट च । पञ्चथम् । पञ्चमम् ॥ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।५।२।८९ ॥ पर्यवस्थाता शत्रुः अपत्यं परिपन्थिनम् । मात्वा परिपरिणौ विदन् ॥ बहुलं छन्दसि ।।२।१२२ ॥ मत्वर्थे विनिः स्यात् ॥ छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्तव्यम् * ॥ इति दीर्घः । मंहिष्ठमुभयाविनम् । शुनमष्ट्रा व्यचरत् ॥ छन्दसीवनिपौ च वक्तव्यौ * ॥ ई । रथीरभूत् । सुमङ्गलीरियं वधूः । मघवानमीमहे ॥ तयोर्दा हिलौ च छन्दसि ।।३।२०॥ इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् । तर्हि ॥ था हेतौ च छन्दसि ।।३।२६ ॥ किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि । कथा दाशेम । पश्च पश्चा च छन्दसि ।।३।३३ ॥ अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा ॥ तुश्छन्दसि ।।३।५९॥ तृजन्तात्तुन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठः । दोहीयसी धेनुः ॥ प्रत्नपूर्वविश्वेमात्थाल छन्दसि ।।३।१११ ॥ इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा ॥ अमु च छन्दसि ।।४।१२॥ किमेत्तिङव्ययघादित्येव । प्रतं नय प्रतरम् ॥ वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि ।।४।४१ ॥ खार्थे । यो नो दुरेवो वृकतिः । ज्येष्ठताति बर्हिषदम् ॥ अनसन्तानपुंसकाच्छन्दसि ।।४।१०३ ॥ तत्पुरुषादृच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥ बहुप्रजाश्छन्दसि ।।४।१२३ ॥ बहुप्रजा निर्ऋतिमाविवेश ॥ छन्दसि च ।।४।१४२॥ दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ। उभयतोदतः प्रतिगृह्णाति ॥ ऋतश्छन्दसि ।।४।१५८ ॥ ऋदन्ताबहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥ ॥ इति पञ्चमोऽध्यायः॥
एकाचो द्वे प्रथमस्य ॥ छन्दसि वेति वक्तव्यम् * ॥ यो जागार । दाति प्रियाणि ॥ तुजादीनां दीर्घोऽभ्यासस्य ।६।१।७॥ तुजादिराकृतिगणः । प्रभरा तूतुजानः । सूर्ये मामहानम् । दाधार यः पृथिवीम् । स तूताव ॥ बहुलं छन्दसि ।।१।३४ ॥ ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये ॥ ऋचि बेरुत्तरपदादिलोपश्च छन्दसि * ॥ ऋच्शब्दे परे त्रेः संप्रसारणमुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम् । व्यूचानि ॥ रयेर्मतौ बहुलम् * ॥ रेवान् । रयिमान् पुष्टिवर्धनः ॥ चायः की ।६।१।३५ ॥ न्य१न्यं चिक्युन निचिक्युरन्यम् । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अमिं ज्योति