________________
वैदिकीप्रक्रिया ।
३३७ स्यासु मूर्भो मतुप।४।४।१२७॥ तद्वानासामिति सूत्रं सर्वमनुवर्तते। मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोलुंक्च वयःशब्दवन्मब्रोपधेयाखिष्टकासु । यस्मिन्मन्ने मूर्धवयःशब्दौ स्तस्तेनोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ।। मत्वर्थे मासतन्वोः ।४।४।१२८ ॥ नमोऽभ्रम् तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तः ॥ मधोत्रं च ।४।४।१२९ ॥ माधवः । मधव्यः ॥ ओजसोऽहनि यत्खौ ।४।४।१३० ॥ ओजस्यमहः । ओजसीनं वा ॥ वेशोयशआदेर्भगाद्यल्खौ ।४।४। १३१४१३२ ॥ यथासंख्यं नेष्यते । वेशो बलं तदेव भग इति कर्मधारयः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः । योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥ पूर्वैः कृतमिनयौ च ।४।४।१३३ ॥ गम्भीरेभिः पथिभिः पूर्विणेभिः । ये ते पन्थाः सवितः पूर्व्यासः ॥ अद्भिःसंस्कृतम्।४।४।१३४॥ यस्येइमप्यं हविः ॥ सहस्रेण सम्मितौ घः ।४।४।१३५॥ सहस्रियासो अपां नोर्मयः। सहस्रेग तुल्या इत्यर्थः॥ मतौ च ४॥४॥१३६॥ सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥ सोममर्हति यः ।४।४। १३७ ॥ सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥ मये च ।४।४।१३८ ॥ सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु । सोममयमित्यर्थः ॥ मधोः ।४।४।१३९ ॥ मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमय इत्यर्थः ॥ वसोः समूहे च ।४।४।१४० ॥ चान्मयडर्थे यत् । वसव्यः ॥ अक्षरसमूहे छन्दस उपसंख्यानम् * ॥ छन्दःशब्दादक्षरसमूहे वर्तमानात्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तुश्रौषडिति चतुरक्षरं यजेति यक्षरं येयजमाह इति पञ्चाक्षरं यक्षरो वषट्रार एष वै सप्तदशाक्षरश्छान्दस्यः ॥ नक्षत्राद्धः ।४।४।१४१ ॥ खार्थे । नक्षत्रियेभ्यः खाहा ॥ सर्वदेवात्तातिलू ।४४।१४२ ॥ खार्थे । सविता नः सुवतु सर्वतातिम् । प्रदक्षिणिदेवतातिमुराणः ॥ शिवशमरिष्टस्य करे ।४।४।१४३ ॥ करोतीते करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददाशुषे । अथो अरिष्टतातये ॥ भावे च ।४।४।१४४ ॥ शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥
॥ इति चतुर्थोध्यायः॥ सप्तनोऽञ्छन्दसि ।।१।६१ ॥ तदस्य परिमाणमिति वर्ग इति च । सप्त साप्तानि असृजत् ॥ शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः * ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनो मासाः ॥ विंशतेश्चेति वाच्यम् * ॥ विंशिनोऽङ्गिरसः ॥ युष्मदस्मदोः सादृश्ये वतुब्वाच्यः * ॥ त्वावतः पुरुषसो । न त्वावां अन्यः । यज्ञं विप्रस्य मावतः ॥
१ अनन्तरार्थे चेति वक्तव्यम् * ॥ मध्वनन्तरमस्मिन्मधयो मासः ॥ लुगकारेकाररेफाश्चेति वाच्या * ॥ लुक् । मधुस्तपोनभः । अकारः । इषः । ऊर्जः । अन्नवान्बलवागित्यर्थः । इकारः । शुचिः। आतपाधिक्येन देहशोषरूपशुग्वानित्यर्थः । रेफः। शुकः ॥