________________
३३६
सिद्धान्तकौमुद्याम् धुजतुपतयालूनामिति वक्तव्यम् * ॥ गुग्गुलूः । मधूः । जतः । पतयालूः ॥ अव्ययात्त्यप् ॥ आविष्यस्योपसंख्यानं छन्दसि * ॥ आविष्ट्यो वर्धते ॥ छन्दसि ठञ् ।४।३।१९॥ वर्षाभ्यष्ठकोऽपवादः । खरे भेदः । वार्षिकम् ॥ वसन्ताच ॥४॥२०॥ ठञ् स्यात् छन्दसि। वासन्तिकम् ॥ हेमन्ताच ।४।३।२१॥ छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः ॥ शौनकादिभ्यश्छन्दसि ।४।३।१०६॥ णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥ वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥ ध्यचश्छन्दसि ।४।३।१५०॥ विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥ नोत्वद्वर्धबिल्वात् ।४।३।१५१ ॥ उत्वान् उकारवान् । मौनं शिक्यम् । वर्ध चर्म तस्य विकारो वार्धी रज्जुः । बैल्वो यूपः ॥ सभाया यः ॥ ढश्छन्दसि ।४।४।१०६॥ सभेयो युवा ॥ भवे छन्दसि ।४।४।११०॥ सप्तम्यन्ताद्भवार्थे यत् । मेध्याय च विद्युत्याय च । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौञ्जवतस्य भक्षः । आचतुर्थसमाप्तेश्छन्दोऽधिकारः ॥ पाथोनदीभ्यां ड्यण् ।४।४।१११ ॥ तमु त्वा पाथ्यो वृषा । चनो दधीत नाद्यो गिरो मे । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥ वेशन्तहिमवझ्यामण् ।४।४।११२॥ भवे । वैशन्तीभ्यः खाहा । हैमवतीभ्यः स्वाहा ॥ स्रोतसो विभाषा ड्यड्ड्यो ।४।४।११३ ॥ पक्षे यत् । ड्यड्ड्ययोस्तु खरे भेदः । स्रोतसि भवः स्रोत्यः । स्रोतस्यः ॥ सगर्भसयूथसनुताद्यन् ।४।४।११४ ॥ अनुभ्राता सगर्थ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जिघत्नु । नुतिर्नुतम् । नपुंसके भावे क्तः । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसीति सः । ततो भवार्थे यन् । यतोऽपवादः ॥ तुग्राद्धन् ।४।४।११५ ॥ भवेऽर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्याखिति बढचाः । तुग्रियाखिति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥ अग्राद्यत् ।४।४।११६॥ घच्छौ च ।४।४।११७ ॥ चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥ समुद्राभ्राद्धः।४।४।११८ ॥ समुद्रिया अप्सरसो मनीषिणम् । नानदतो अम्रियस्येव घोषाः ॥ बर्हिषि दत्तम् ।४।४।११९॥ प्राग्घिताद्यदित्येव । बर्हिष्येषु निधिषु प्रियेषु ॥ दूतस्य भागकर्मणी ।४।४।१२० ॥ भागोंऽशः दूत्यम् ॥ रक्षोयातूनां हननी।४।४।१२१ ॥ या ते अग्ने रक्षस्या तनूः ॥ रेवतीजगतीहविष्याभ्यः प्रशस्ये ।४।४।१२२ ॥ प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥ असुरस्य खम् ।४।४।१२३. ॥ असुर्य देवेभिर्धायि विश्वम् ॥ मायायामण् ।४।४।१२४ ॥ आसुरी माया ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः।४।४।१२५ ॥ वर्चखानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥ अश्विमानण् ।४।४।१२६ ॥ आश्विनीरुपदधाति ॥ वय