________________
वैदिकीप्रक्रिया।
३३५ रग्वक्तव्यः * ॥ पितरं च दृशेयं मातरं च । अङि तु ऋदृशोऽङीति गुणः स्यात् ॥ छन्दस्युभयथा ।।४।११७ ॥ धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा. सुष्टुतयः । वर्धयन्त्वित्यर्थः । आर्धधातुकल्याण्णिलोपः । विशृण्विरे । सार्वधातुकत्वात् भुः शृभावश्च । हुश्नुवोरिति यण् ॥ आगमहनजनः किकिनौ लिट् च ।३।२।१७१॥ आदन्ताहवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड़त् । बधिर्वजं पपिः सोमं ददिर्गाः । जग्मियुवा । जन्निवत्रममित्रियम् । जज्ञिः । लिङद्भावादेव सिद्धे ऋच्छत्यूतामिति गुणबाधनार्थ कित्त्वम् । बहुलं छन्दसीत्युत्वम् । ततुरिः । जगुरिः ॥ तुमर्थे सेसेनसेअसेनक्सेकसेनध्यैअध्यनकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेतवेनः ।। ४।९॥ से । वक्षे रायः । सेन् । ता वामेषे । असे । शरदो जीवसे धाः । असेन नित्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे । अध्यै । अध्यैन् । जठरं पृणध्यै । पक्षे आधुदात्तम् । कध्यै कध्यैन् । आहुवध्यै । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै । शध्यैन् । वायवे पिबध्यै । तवै । दातवा उ । तवेङ् । सूतवे । तवेन् । कर्तवे ॥ प्रय रोहिष्यै अव्यथिष्यै।३।४।१०॥ एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः॥ दृशे विख्ये च ।।४।११॥ द्रष्टुं विख्यातुमित्यर्थः ॥ शकि णमुल्कमुलौ ॥४॥ १२॥ शक्नोतावुपपदे तुमर्थे एतौ स्तः । विभाजं नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः ॥ ईश्वरे तोसुन्कसुनौ ।।४।१३ ॥ ईश्वरो विचरितोः । ईश्वरो. विलिखः । विचरितुं विलेखितुमित्यर्थः ॥ कृत्यार्थे तवैकेन्केन्यत्वनः ।।४१४ ॥ न म्लेछितवै । अवगाहे । दिदृक्षेण्यः । भूर्यस्पष्ट कलम् ॥ अवचक्षे च ।।४।१५॥ रिपुणा नावचक्षे । अवख्यातव्यमित्यर्थः ॥ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ।३।४।१६॥ आसंस्थातोः सीदन्ति । आसमाप्तेः । सीदन्तीत्यर्थः । उदेतोः । अपकर्ताः । प्रवदितोः । प्रचरितोः । होतोः । आतमितोः। काममाविजनितोः संभवामः । इति श्रुतिः ॥ मृपितृदोः कसुन् ।३।४।१७॥ भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जत्रुभ्य आतृदः ॥ ॥ इति तृतीयोऽध्यायः॥
रात्रेश्चाजसौ ।४।१॥३१॥ रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती । लोके तु कृदिकारादिति ङीष्यन्तोदात्तः ॥ नित्यं छन्दसि ।४।१।४६ ॥ बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा । नित्यग्रहणमुत्तरार्थम् ॥ भुवश्च ।४।१॥४७॥ ङीप् स्यात् छन्दसि । विभ्वी । प्रभवी । विप्रसंभ्य इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ॥ मुद्गलाच्छन्दसि लिच्च * ङीषो लित्त्वमानुक् चागमः । लित्वरः ॥ रथीरभून्मुद्गलानी ॥ दीर्घजिह्वी च छन्दसि ।४।१॥ ५९॥ संयोगोपधत्वादप्राप्तो ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥ कद्रुकमण्डल्वोश्छन्दसि ।४।११७१ ॥ ऊङ् स्यात् । कद्रश्च वै कमण्डलूः ॥ गुग्गुलुम