________________
वैदिकीप्रक्रिया |
३३३
1
1
क्षणः कः ॥ छन्दसि वनसनरक्षिमथाम् । ३।२।२७ ॥ एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रनिम् । उत नो गोषणिं धियम् । ये पथां पथिरक्षयः । चतुरक्षौ पथिरक्षी । हविर्मथीनामभि || छन्दसि सहः | ३|२/६३ || सुप्युपपदे सहेण्विः स्यात् । पृतनाषाट् ॥ वहश्च ।३।२।६४ || प्राग्वत् । दित्यवाट् । योगविभाग उत्तरार्थः ॥ कव्यपुरीषपुरीयेषु युट् |३|२|६५ ॥ एषु वहेर्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥ हव्येऽनन्तः पादम् |३|२|६६ || अग्निश्च हव्यवाहनः । पादमध्ये वहश्चेति ण्विरेव । हव्यवाळग्निरजरः पिता नः ॥ जनसनखनक्रमगमो विद् | ३ |२| ६७ ॥ विडुनोरित्यात्वम् । अब्जाः । गोजाः । गोषा इन्दो नृषा असि । सनोतेरन इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् । आ दधिक्राः शवसा पञ्च कृष्टीः । अग्रेगाः ॥ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् |३| २|७१ ॥ श्वेतवहादीनां डस्पदस्येति वक्तव्यम् * ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः ॥ श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥ अवे यजः | ३|२|७२ || अवयाः । अवयाजौ । अवयाजः ॥ अवयाः श्वेतवाः पुरोडाश्च |८|२|६७ ॥ एते सम्बुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥ विजुपे छन्दसि | ३ | २|७३ || उपे उपपदे यजेर्विच् । उपयट् ॥ आतो मनिनकनिव्वनिपश्च ।३।२७४ ॥ सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः || ब्रह्मभ्रूणवृत्रेषु क्विप् । बहुलं छन्दसि | ३|२८८ ॥ उपपदान्तरेऽपि हन्तेर्बहुलं किप् स्यात् । यो मातृहा पितृहा ॥ छन्दसि लिट् |३|२| १०५ ॥ भूतसामान्ये | अहं द्यावापृथिवी आ ततान || लिटः कानज्वा । ३।२।१०६ ॥ कसुश्च ।३।२।१०७ ॥ छन्दसि लिटः कानच्कसू वा स्तः । चक्राणा वृष्णि । यो नो अ अररिवां अघायुः ॥ णेइछन्दसि | ३ |२| १३७ ॥ ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः ॥ भुवश्च । ३।२।१३८ || अस्मात् केवलात्प्राग्वत् ॥ भविष्णुः ॥ छन्दसि परेच्छायां क्यच उपसंख्यानम् * क्याच्छन्दसि | ३ |२| १७० ॥ उप्रत्ययः स्यात् । अघायुः || एरजधिकारे जवसवौ छन्दसि वाच्यौ * ॥ जवे याभिर्यूनः ॥ ऊर्वोर्मे जवः । देवस्य सवितुः सवे ॥ मन्त्रे वृषेषपचमन विदभूवीरा उदात्तः ।३।२।९६ ।। वृषादिभ्यः क्तिन् स्यात्स चोदात्तः । वृष्टिं दिवः । सुम्नमिष्टये । पचात्पक्तीरुत । इयं ते नव्यसी मतिः । वित्तिः । भूतिः । अग्न आ याहि वीतये । रातौ स्यामोभयासः ॥ छन्दसि गत्यर्थेभ्यः | ३ | ३ | १२९ ॥ ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः सूपसदनोऽग्निः || अन्येभ्योऽपि दृश्यते | ३ | ३ | १३० ॥ गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् ॥ छन्दसि