________________
३३२
सिद्धान्तकौमुद्याम् च्लेलुक् । अडभावः। सग्धिश्च मे ॥ हेमन्तशिशिरावहोरात्रे च छन्दसि।।४।२८॥ द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ । अहोरात्रे ॥ अदिप्रभृतिभ्यः शपः ॥ बहुलं छन्दसि ।।४।७३ ॥ वृत्रं हनति वृत्रहा । अहिः शयत उपपृक् पृथिव्याः । अत्र लुक् न । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः ॥ जुहोत्यादिभ्यः श्लुः ॥ बहुलं छन्दसि ।।४७६॥ दाति प्रियाणि चिद्वसु । अन्यत्रापि पूर्णां विवष्टि ॥ मन्त्रे घसहरणशवृदहाद्वृचकृगमिजनिभ्यो लेः ।।४।८०॥ एभ्यो लेलृक् स्यान्मन्ने । अक्षन्नमीमदन्त हि । घस्लादेशस्य गमहनेत्युपधालोपे शासिवसीति षः । माह्वर्मित्रस्य । धूर्तिः प्रणजमर्त्यस्य । नशेति कुत्वम् । सुरुचो वेन आवः । मा न आ धक् । आदित्याकारान्तग्रहणम् । आप्रा द्यावापृथिवी । परावर्भारभृद्यथा । अक्रन्नुषासः । त्वे रयिं जागृवांसो अनुग्मन् । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्णन्नजनिष्ट हि षः ॥
॥ इति द्वितीयोऽध्यायः॥ __ अभ्युत्सादयां प्रजनयां चिकयां रमयामकः पावयां क्रियाद्विदामक्रनिति छन्दसि ।।१॥४२॥ आयेषु चतुर्यु लुङि आम् अक इत्यनुप्रयोगश्च । अभ्युत्सादयामकः । अभ्युदसीषददिति लोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामकः । अचैषीदित्यर्थे चिनोतराम् । द्विर्वचनं कुत्वं च । रमयामकः । अरीरमत् । पावयांक्रियात पाव्यादिति लोके । विदामक्रन् । अवेदिषुः ॥ गुपेश्छन्दसि ।।१।५० ॥ २ गृहानजूगुपतं युवम् । अगौप्तमित्यर्थः ॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्य ५१॥ च्लेश्चङ् न । मा त्वायतो जरितुः काममूनयीः । मा त्वाग्मिर्ध्वनयीत् ॥ . हिभ्यश्छन्दसि ।।११५९ ॥ च्लेर वा । इदं तेभ्योऽकरं नमः । अमरत् । अ यत्सानोः सानुमारुहत् ॥ छन्दसि निष्टयंदेवहूयप्रणीयोनीयोच्छिष्यम र्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्यो चाय्यपृडानि ।३।१।१२३ ॥ कृन्ततेनिसपूर्वात् क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्वि निसः षत्वं च । निष्टयं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा दीर्घश्व । स्पर्धन्ते वा उ देवहूये । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृस्तृञ्धवृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेयः । शुन्धध्वं दैव्याय कर्मणे देवयज्यारै आपूर्वात्पृच्छेः क्यप् । आपृच्छयं धरुणं वाज्यर्षति । सीव्यतेः क्यप् षत्वं च । प्रति पीव्यः । ब्रह्मणि वर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् चेति क्यब्ण्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेयॆत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् ॥ हिरण्य इति वक्तव्यम् * ॥ उपचेयपृडमन्यत् । मृड सुखने पृड चेत्यस्मादिगुपधल