________________
वैदिकीप्रक्रिया।
॥ श्रीगणेशाय नमः॥ छन्दसि पुनर्वखोरेकवचनम् ।।२।६१॥ द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥ विशाखयोश्च ।।२।६२ ॥ प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥ षष्ठीयुक्तश्छन्दसि वा ।१।४।९॥ षष्ठयन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । तेन सर्वे विधयश्छन्दसि वैकल्पिकाः । बहुलं छन्दसीत्यादिरस्यैव प्रपञ्चः ॥ यचि भम् ॥ नभोऽङ्गिरोमनुषां वेत्युपसंख्यानम् * ॥ नभसा तुल्यं नभखत् । भत्वाद्रुत्वाभावः । अङ्गिरखदगिरः । मनुष्वदग्ने । जनेरुसीति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ॥ वृषण्वखश्वयोः * ॥ वृषन् वर्षकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्येति णत्वनिषेधोऽपि न । अल्लोपोन इति तु अल्लोपो न । अनङ्गत्वात् ॥ अयस्मयादीनि छन्दसि ।।४।२०॥ एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ उभयसंज्ञान्यपीति वक्तव्यमिति * ॥ स सुष्टुभा स ऋक्ता गणेन । पदत्वात्कुत्वम् । भत्वाजश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु । अत्र पदत्वाजश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः ॥ छन्दसि परेऽपि ।१।४।८१॥ व्यवहिताश्च ।१।४।८२॥ हरिभ्यां याह्योक आ । आ मन्तैरिन्द्र हरिभिर्याहि ॥ इन्धिभवतिभ्यां च ।।६॥ आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् । पुत्र ईधे अथर्वणः । बभूव । इदं प्रत्याख्यातम् ॥ इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति ॥
॥ इति प्रथमोऽध्यायः॥ तृतीया च होश्छन्दसि ।२।३।३॥जुहोतेः कर्मणि तृतीया स्याद्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितमध्यमापद्यतेत्यादिप्रयोगदर्शनात् । अमये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविदेवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥ द्वितीया ब्राह्मणे ।।३६०॥ ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठयपवादः । गामस्य तदहः सभायां दीव्येयुः ॥ चतुर्थ्यर्थे बहुलं छन्दसि ।।३।६२॥षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः। गोधाकालकादाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ॥ षष्ठयर्थे चतुर्थी वाच्या * ॥ या खर्वेण पिबति तस्यै खर्वः ॥ यजेश्च करणे ।।३६३ ॥ इह छन्दसि बहुलं षष्ठी ॥ घृतस्य घृतेन वा यजते ॥ बहुलं छन्दसि ।।४।३९ ॥ अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घसेति