________________
३३०
सिद्धान्तकौमुद्याम् भिप्रेताख्याने कृतः क्त्वाणमुलौ ।३।४५९॥ अयथाभिप्रेताख्यानं नाम अप्रियस्योचैः प्रियस्य च नीचैः कथनम् । उच्चैःकृत्य उच्चैःकृत्वा उच्चैःकारमप्रियमाचष्टे । नीचैःकृत्य नीचैःकृत्वा नीचैःकारं प्रियं ब्रूते ॥ तिर्यच्यपवर्गे ३२४६० ॥ तिर्यक्शब्दे उपपदे कृषः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यकृत्य तिर्यकृत्वा तिर्यकारं गतः । समाप्य गत इत्यर्थः । अपवर्ग किम् । तिर्यकृत्वा काष्ठं गतः ॥ स्वाङ्गे तस्प्रत्यये कृभ्वोः ।।४। ६१ ॥ मुखतःकृत्य गतः । मुखतः कृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतोभावम् ॥ नाधार्थप्रत्यये व्यर्थे ।३।४।६२ ॥ नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः। अनाना नाना कृत्वा । नानाकृत्य । नानाकारम् । विनाकृत्य । विनाकृत्वा । विनाकारम् । नानाभूय । नानाभूत्वा । नानाभावम् । अनेकं द्रव्यमेक भूत्वा एकधाभूय । एकधाभूत्वा । एकधाभावम् । एकधाकृत्य । एकधाकृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुकृत्वा । पृथग्भूत्वा ॥ तूष्णीमि भुवः ३२४६३ ॥ तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः। तूष्णींमूय । तूष्णीभूत्वा । तूष्णींभावम् ॥ अन्वच्यानुलोम्ये ।।४।६४ ॥ अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वम्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्ते इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् ॥ विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुमे ॥ १ ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोभवानीविश्वनाथयोः ॥२॥
॥ इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यामुत्तरार्धं समाप्तम् ॥