________________
उत्तरकृदन्तम् ।
३२९ मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः संबन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥ हिंसार्थानां च समानकर्मकाणाम् ।।४।४८॥ तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थाण्णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥ सप्तम्यां चोपपीडरुधकर्षः ।।४।४९ ॥ उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्थोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्थाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन बजे उपरोधं वा । पाण्युपकर्ष धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥ समासत्तौ ।।४।५०॥ तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥ प्रमाणे च ।।४।५१॥ तृतीयासप्तम्योरित्येव । व्यङ्गुलोस्कर्ष खण्डिकां छिनत्ति । अङ्गुलेन छङ्गुले वोत्कर्षम् ॥ अपादाने परीप्सायाम् ।।४। ५२॥ परीप्सा त्वरा । शय्योत्थायं धावति ॥ द्वितीयायां च ।।४।५३ ॥ परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥ अपगुरो णमुलि ॥३॥१॥५३ ॥ गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते । अस्यपगारम् ॥ स्वाङ्गेऽध्रुवे ।। ४।५४ ॥ द्वितीयायामित्येव । अध्रुवे खाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । ध्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्भवम् ॥ परिक्तिश्यमाने च ।।४।५५॥ सर्वतो विबाध्यमाने खाने द्वितीयान्ते णमुल् स्यात् । उरःप्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ।।४।५६ ॥ द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याध्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन संबन्धो व्याप्तिः । क्रियायाः पौनःपुन्यमासेवा नित्यवीप्सयोरिति द्वित्वं तु न भवति । समासेनैव खभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसंज्ञार्थमासेवायामिह पुनर्विधिः । गेहानुप्रवेशमास्ते। गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुपपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥ अस्यतितृषोः क्रियान्तरे कालेषु ।।४।५७ ॥ क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । यहात्यासं गाः पाययति । व्यहमत्यासम् । व्यहतर्षम् । व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा घ्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥ नाम्यादिशिग्रहोः ३।४।५८॥ द्वितीयायामित्येव । नामादेशमाचष्टे नामग्राहमाह्वयति ॥ अव्ययेऽयथा
४२