________________
३२८
सिद्धान्तकौमुद्याम् भोजयतीत्यर्थः ॥ यावति विन्दजीवोः ।।४।३० ॥ यावद्वेदं भुङ्क्ते यावल्लभते तावदित्यर्थः । यावज्जीवमधीते ॥ चर्मोदरयोः पूरेः ।।४।३१ ॥ कर्मणीत्येव । चर्मपूर स्तृणाति । उदरपूरं भुङ्क्ते ॥ वर्षप्रमाण ऊलोपश्चास्थान्यतरस्याम् ॥२४॥३२॥ कर्मण्युपपदे पूरेर्णमुल स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥ चेले क्नोपेः ।।४।३३ ॥ चेलार्थेषु कर्मसूपपदेषु क्रोपेणमुल स्याद्वर्षप्रमाणे । चेलनोपं वृष्टो देवः । वस्त्रक्नोपम् । वसननोपम् ॥ निमूलसमूलयोः कषः ।।४।३४ ॥ कर्मणीत्येव । कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलका कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसंबन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥ शुष्कचूर्णरूक्षेषु पिषः ।।४।३५ ॥ एषु कर्मसूपपदेषु पिषेर्णमुल । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥ समूलाकृतजीवेषु हन्कृञ्ग्रहः ।३।४३६ ॥ कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥ करणे हनः ।३।४।३७ ॥ पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसंबन्धे तु हिंसार्थानां चेति वक्ष्यते ॥ लेहने पिषः ।।४।३८ ॥ स्निह्यते येन तस्मिन् करणे पिषेर्णमुल । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥ हस्ते वर्तिग्रहोः ।३।४।३९ ॥ हस्तार्थे करणे । हस्तवर्त वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ खे पुषः ॥३४॥४०॥ करण इत्येव । ख इत्यर्थग्रहणम् । तेन खरूपे पर्याये विशेषे च णमुल । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥ अधिकरणे बन्धः ३४४१ ॥ चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥ संज्ञायाम् ।।४।४२ ॥ बन्नातेर्णमुल् स्यात्संज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिकाबन्धम् । बन्धविशेषाणां संज्ञा एताः ॥ कत्रों
र्जीवपुरुषयोनशिवहोः ।।४।४३ ॥ जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥ ऊर्वे शुषिपूरोः ॥४॥४४॥ ऊर्चे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूल एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिवर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ उपमाने कर्मणि च ॥४॥४५॥ चाकर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥ कषादिषु यथाविध्यनुप्रयोगः ३४॥४६॥ यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥ उपदंशस्तृतीयायाम् ॥२४॥४७॥ इतः प्रभृति पूर्वकाल इति संबध्यते । तृतीयाप्रभृतीन्यन्यतरस्यामिति वा समासः । मूलकोपदंशं भुङ्क्ते ।