________________
उत्तरकृदन्तम् ।
३२७ विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥ ल्यपि लघुपूर्वात् ।६।४।५६ ॥ लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । संप्रधार्य ॥ विभाषापः।६।४।५७॥ आप्नोतेणेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥ क्षियः।६।४।५९ ॥ क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ॥ ल्यपि च ।६१४१॥ वेजो ल्यपि संप्रसारणं न स्यात् । प्रवाय ॥ ज्यश्च ।६।११४२ ॥ प्रज्याय ॥ व्यश्च ।६।। ४३ ॥ उपव्याय ॥ विभाषा परेः।६।१॥४४॥ परे]ो वा संप्रसारणं स्यात् ल्यपि तुकं बाधित्वा परत्वाद्धल इति दीर्घः ॥ परिवीय । परिव्याय । कथं मुखं व्यादाय खपिति, नेत्रे निमील्य हसतीति । व्यादानसंमीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ।।
आभीक्ष्ण्ये णमुल च ३।४।२२ ॥ पौनःपुन्ये द्योत्ये पूर्वविषये णमुल स्यात् क्त्वा च । द्वित्वम् । स्मारस्मारं नमति शिवम् । स्मृत्यास्मृत्वा । पायंपायम् । भोजभोजम् । श्रावंश्रावम् । चिण्णमुलोरिति णमुल्परे णौ वा दीर्घः । गामंगामम् । गमंगमम् । विभाषा चिण्णमुलोरिति नुम् वा। लंभलंभम् । लाभलाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भंप्रलम्भम् । जाग्रोऽविचिण्णिति गुणः । जागरंजागरम् । ण्यन्तस्याप्येवम् ॥ न यद्यनाकाङ्के ।।४।२३ ॥ यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्के किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥ विभाषाऽग्रेप्रथमपूर्वेषु ।३।४।२४ ॥ आभीक्ष्ण्ये इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले ऋत्वाणमुलौ वा स्तः । अग्रेभोज व्रजति । अग्रेभुक्त्वा । प्रथमं भोजम् । प्रथम भुक्त्वा । पूर्वम्भोजम् । पूर्वभुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रेभोजभोजं व्रजति । भुक्त्वामुक्त्वा ॥ कर्मण्याक्रोशे कृत्रः खमुञ् ।३।४।२५ ॥ कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे चौरशब्दमुच्चार्येत्यर्थः ॥ स्वादुमि णमुल ३।४।२६ ॥ खाद्वर्थेषु कृञो णमुल स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादु खादं कृत्वा भुते खादुकारं भुते । संपन्नङ्कारम् । लवणकारम् । संपन्नलवणशब्दौ खादुपर्यायौ । वासरूपेण क्त्वापि । खादं कृत्वा भुते ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ।।४।२७ ॥ एषु कृशो णमुलू स्यात् सिद्धः अप्रयोगोऽस्य एवंभूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुते । इत्थं भुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुते ॥ यथातथयोरसूयाप्रतिवचने ।।४।२८ ॥ कृञ् सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥ कर्मणि दृशिविदोः साकल्ये ।।४।२९ ॥ कर्मण्युपपदे णमुल स्यात् । कन्यादर्श वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्व