________________
उत्तरकृदन्तम् ।
३२५
भूकृञोः ।३।३।१२७ ॥ कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञः खल स्यात् । यथासंख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये । ईषदादयस्तु ततः प्राक् ॥ कर्तृकर्म - णोश्श्र्व्यर्थयोरिति वाच्यम् * || खित्त्वान्मुम् | अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । खाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । खाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते || आतो युच् | ३ | ३|१२८ ।। खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ॥ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः * ॥ दुःशासनः । दुर्योधन इत्यादि ॥ षात्पदान्तात् |८|४|३५ ॥ नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्त इति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥ आवश्यकाधमर्ण्ययोर्णिनिः । ३।३।१७० ॥ अवश्यङ्कारी । शतन्दायी ॥ कृत्याश्च | ३|३|१७१ ॥ आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥ क्तिच्क्तौ च संज्ञायाम् | ३ | ३|१९७४ ॥ धातोः क्तिच् क्तश्च स्यादाशिषि संज्ञायाम् । तितुति नेट् । भवतात् भूतिः ॥ न क्तिचि दीर्घश्व |६|४|३९ ॥ अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥ सनः तिचि लोपश्चास्यान्यतरस्याम् |६|४|४५ ॥ सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा | ३|४|१८ ॥ प्रतिषेधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेनेति नियमान्नोपपदसमासः ॥ दो दद्धोः ॥ अलं दत्त्वा | घुमास्था । पीत्वा खलु । अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् | अलंकारः ॥ उदीचां माङो व्यतीहारे | ३ | ४|१९ ॥ व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥ मयतेरिदन्यतरस्याम् |६|४| ७० ॥ मेङ इकारो ऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपिं । याचित्वा अपमयते ॥ परावरयोगे च । ३।४।२० ॥ परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वत योगोऽत्र नद्याः ॥ समानकर्तृकयोः पूर्वकाले ।३।४।२१ ॥ समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदा`त्तेत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति ॥ खरत्यादेः श्रयुकः कितीति नित्यमिडभावः पूर्वविप्रतिषेधेन * ॥ स्वृत्वा । सूत्वा । धूत्वा ॥ क्त्वि स्कन्दिस्यन्दोः | ६|४|३१ ॥ एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्वादिना । स्यन्त्वा । स्यन्दित्वा ॥ न क्त्वा सेट् | १२|१८ ॥ सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा | १२|७ || एभ्यः सेटू क्त्वा कित् । मृडित्वा । क्लिशः