________________
३२४
सिद्धान्तकौमुद्याम् गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥ वा यौ।।४।५७॥ अजेर्वी वा स्यादयौ प्रवयणम् । प्राजनम् ॥ करणाधिकरणयोश्च ३।३।११७॥ ल्यः स्यात् । इध्मप्रवश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राकरणाधिकरणयोरित्यधिकारः ॥ अन्तरदेशे ८४२४ ॥ अन्तःशब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु अन्तर्हननो देशः । अत्पूर्वस्येत्येव । अन्तन्ति । तपरः किम् । अन्तरघानि ॥ अयनं च ।८।४।२५ ॥ अयनस्य णोऽन्तःशब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥ पुंसि संज्ञायां घः प्रायेण ३३३३११८ ॥ छादेर्धेऽद्युपसर्गस्य ।६।४।९६॥ द्विप्रभृत्युपसर्गहीनस्य छादेर्हखः स्याद्धे परे। दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । प्रच्छदः । अद्वीति किम् । समुपच्छादः । आकुर्वन्त्यस्मिन् आकरः ॥ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ।३।३।११९ ॥ घान्ता निपात्यन्ते । हलश्चेति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । संचरन्त्यनेन संचरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥ अवे तृस्त्रोर्घञ् ।३।३।१२० ॥ अवतारः कूपादेः । अवस्तारो जवनिका ॥ हलश्च ।।३।१२१ ।। हलन्ताद्धञ् स्यात् घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥ अध्यायन्यायोद्यावसंहाराश्च ।।३।१२२ ॥ अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्युवन्ति संहरन्त्यनेनेति विग्रहः ॥ अवहाराधारावायानामुपसंख्यानम् * ॥ उदकोऽनुदके ।।३।१२३ ॥ उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्भियतेऽस्मिन्निति घृतोदश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥ जालमानायः।३।३।१२४॥ आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥ खनो घ च ।।३। १२५ ॥ चाद्धन् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥ खनेर्डडरेकेकवका वाच्याः ॥ * ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥ ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।३।३। १२६ ॥ करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल स्यात् । तयोरेवेति भावे कर्मणि च । कृच्छे । दुष्करः कटो भवता । अकृच्छे । ईषत्करः । सुकरः ॥ निमिभीलियां खलचोरात्वं नेति वाच्यम् * ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥ उपसर्गात् खल्घोः श६७॥ उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्पलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । ईषल्लभः । लाभः ॥ न सुदुभ्यों केवलाभ्याम् ॥१॥६८॥ उपसर्गान्तररहिताभ्यां सुदुा लभेर्नुम्न स्यात् खल्घजोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा खती कर्मप्रवचनीयौ तदा भविष्यति ॥ कर्तृकर्मणोश्च
THHTHHHHHHHHE HINCHHHHHH HHHHHHHil