________________
उत्तरकृदन्तम् ।
३२३ षिद्भिदादिभ्योऽङ् ।३।३।१०४॥ षिञ्यो भिदादिभ्यश्च स्त्रियामङ् । जृष् । ऋदृशोऽङि गुणः । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा। मृजा । क्रपेः संप्रसारणं च । कृपा ॥ चिन्तिपूजिकथिकुम्बिचर्चश्च ।।३।१०५॥ अङ् स्यााचोऽपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥ आतश्चोपसर्गे ॥३॥३॥ १०६॥ अङ् स्यात् ॥ क्तिनोऽपवादः । प्रदा। उपदा । श्रदन्तरोरुपसर्गवद्वृत्तिः । श्रद्धा । अन्तर्धा । उपसर्गे घोः किरित्यनेन किः । अन्तर्षिः ॥ ण्यासश्रन्थो युच् ।३।३।१०७॥ अकारस्यापवादः । कारणा। हारणा । आसना । श्रन्थना ॥ घट्टिवन्दिविदिभ्यश्चेति वाच्यम् * ॥ घट्टना । वन्दना । वेदना ॥ इषेरनिच्छार्थस्य * ॥ अन्वेषणा ॥ परेर्वा * ॥ पर्येषणा । परीष्टिः ॥ रोगाख्यायां ण्वुलू बहुलम् ।३।३।१०८॥ प्रच्छर्दिका । प्रवाहिका । विचर्चिका ॥ कचिन्न । शिरोतिः ॥ धात्वर्थनिर्देशे ण्वुल्वक्तव्यः * ॥ आसिका । शायिका ॥ इश्तिपौ धातुनिर्देशे * ॥ पचिः । पचतिः ॥ वर्णात्कारः * ॥ निर्देश इत्येव । अकारः । ककारः ॥ रादिफः * ॥ रेफः ॥ मत्वर्थाच्छः * ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥ इणजादिभ्यः * ॥ आजिः । आतिः ॥ इञ् वपादिभ्यः * ॥ वापिः । वासिः । खरे भेदः॥ इक् कृष्यादिभ्यः * ॥ कृषिः । गिरिः ॥ संज्ञायाम् ।।३।१०९॥ अत्र धातोर्तुल । उद्दालकपुष्पभञ्जिका ॥ विभाषाख्यानपरिप्रश्नयोरिश्च ।३।३।११०॥ परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृति वाकार्षीः। सर्वां कारिं कारिका क्रियां कृत्यां कृतिं वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिका पचां पक्तिम् ॥ पर्यायाहणोत्पत्तिषु ण्वुच् ।३।३। १११ ॥ पर्यायः परिपाटी क्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुभक्षिकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । इक्षुभक्षिका उदपादि॥ आक्रोशे नयनिः।३।३।११२॥ विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः ।। कृत्यल्युटो बहुलम् ।।३।११३ ॥ भावे अकर्तरि च कारके इति च निवृत्तम् ॥ राज्ञा भुज्यन्ते राजभोजनाः शालयः॥नपुंसके भावे क्तः।३।३।११४॥ल्युट् च ।३।३।११५॥ हसितम् । हसनम् । योगविभाग उत्तरार्थः ॥ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ।३।३।११६ ॥ येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन् कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयः पानं सुखम् । कर्तुरिति किम् ।
१ भिदा, छिदा, विदा, क्षिपा, गुहा, श्रद्धा, मेधा, गोधा, आरा, हारा, कारा बन्धने, क्षिया, तारा ज्योतिषि, धारा, रेखा, चूडा, पीडा, वपा, वसा, मृजा, कृपा ॥ इति भिदादिः॥
२ भिदा विदारणे ॥ * ॥ भित्तिरन्या ॥ छिदा द्वैधीकरणे * ॥ छित्तिरन्या ॥ आरा शख्याम् ॥ * ॥ आर्तिरन्या ॥ धारा प्रपाते * ॥ धृतिरन्या ॥ गुहा गिर्योषध्योः ॥ * ॥ गूढिरन्या ॥