________________
३२२
सिद्धान्तकौमुद्याम् धीयतेऽनेनेत्युपाधिः ॥ कर्मण्यधिकरणे च ।।३।९३ ॥ कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ॥ स्त्रियां क्तिन् ।२३९४॥ स्त्रीलिङ्गे भावादौ क्तिन् स्यात् । घञोऽपवादः । अजपौ तु परत्वाबाधेते । कृतिः । चितिः । स्तुतिः ॥ स्फायी, स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥ श्रुयजीषिस्तुभ्यः करणे * ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च इष्टिः । स्तुतिः । ऋल्वादिभ्यः क्तिनिष्ठावद्वाच्यः * ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लाद इति योगविभागात् क्तिनि हस्खः । प्रह्लत्तिः । ति च । चूर्तिः । फुलतिः ॥ चायतेः क्तिनि चिभावो वाच्यः * ॥ अपचितिः ॥ सम्पदादिभ्यः विप् * ।। सम्पत् । विपत् ॥ क्तिन्नपीष्यते * ॥ सम्पत्तिः । विपत्तिः ॥ स्थागापापचो भावे ३२३९५ ॥ क्तिन् स्यादडोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । संपीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥ ऊतियतिजतिसातिहेतिकीर्तयश्च ।।३।९७॥ अवतेवरत्वरेत्यूठ । ऊतिः । खरार्थ वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यतिमास्थे तीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसनेत्यात्वे कृते खरार्थ निपातनम् । हन्तेहिनोतेर्वा हेतिः । कीर्तिः ॥ व्रजयजो वे क्यप् ॥३॥३॥९८ ॥ व्रज्या । इज्या ॥ संज्ञायां समजनिषदनिपतमनविदषुश्शीभृत्रिणः ।।३।९९ ॥ समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः संज्ञायाम् ॥ अजेः क्यपि वीभावो नेति वाच्यम् * ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥ कृतः श च ।३।३।१००॥ कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥ इच्छा ।।३।१०१॥ इषे वे शो यगभावश्च निपात्यते । इच्छा ॥ परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम् * ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । मृग अन्वेषणे चुरादावदन्तः । अतोलोपाभावोऽपि । शे यकि णिलोपः । मृगया। अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिदीर्घश्च । अटाट्या ॥ जागर्तेरकारो वा * ॥ पक्षे शः । जागरा । जागर्या ॥ अ प्रत्ययात् ।।३। १०२ ॥ प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥ गुरोश्च हलः २३।१०३ ॥ गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥ निष्ठायां सेट इति वक्तव्यम् * ॥ नेह । आप्तिः । तितुत्रेति नेट् । दीप्तिः ॥ तितुत्रेष्वग्रहादीनामिति वाच्यम् * ॥ निगृहीतिः । निपठितिः ॥
१ संपद् , विपद् , आपद्, प्रतिपद् , परिषद् । इति संपदादिः ॥