________________
उत्तरकृदन्तम् ।
३२१ आङि युद्धे ।३।३।७३ ॥ आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ॥ निपानमाहावः ।३।३।७४ ॥ आयूर्वस्य हयतेः संप्रसारणमप् वृद्धिश्वोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥ भावेऽनुपसर्गस्य ।३।३७५ ॥ अनुपसर्गस्य ह्वयतेः संप्रसारणमप् च स्यात् भावे । हवः ॥ हनश्च वधः ।३३३३७६ ॥ अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः । वधेन दस्युम् । चाद्धञ् । घातः ॥ मूर्ती घन: ३२३२७७ ॥ मूर्तिः काठिन्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवधनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥ अन्तर्घनो देशे ।।३।७८ ॥ वाहीकामविशेषस्य संज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥ अगारैकदेशे प्रघणः प्रघाणश्च ।३।३।७९ ॥ द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥ उद्धनोऽत्याधानम् ।३।३।८०॥ अत्याधानमुपरि स्थापनम् । यस्मिन् काष्ठे अन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्धनः । अधिकरणेऽप् ॥ अपघनोऽङ्गम् ।३।३। ८१॥ अङ्गं शरीरावयवः । स चेह न सर्वः किंतु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥ करणेऽयोविद्रुषु ।३।३।८२ ॥ एषु हन्तेः करणेऽप् स्याद्धनादेशश्च । अयो हन्य तेऽनेनेत्ययोधनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्संज्ञायामिति णत्वम् । संज्ञेषा कुठारस्य । दुर्वृक्षः ॥ स्तम्बे क च ।३।३।८३ ॥ स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बधनः । करण इत्येव । स्तम्बघातः ॥ परौ घः।३।३२८४॥ परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥ परेश्च घाङ्कयोः ।८।२।२२ ॥ परे रेफस्य लो वा स्याद्धशब्दे अङ्कशब्दे च । पलिघः । परिघः । पल्यङ्कः । पर्यङ्कः । इह तरप्तमपौ घ इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ॥ उपन्न आश्रये।३।३।८५॥ उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपन्नः ॥ सङ्घोद्धौ गणप्रशंसयोः ।३।३।८६ ॥ संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुद्ध्यर्थत्वाद्धन्तिर्ज्ञाने ॥ निघो निमितम् ।३।३।८७ ॥ समन्तान्मितं निमितम् । निविशेषं हन्यन्ते ज्ञायन्ते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ॥ द्वितः क्रिः ।।३।८८ ॥ अयं भाव एव खभावात् । क्रेर्मन्नित्यम् क्रिप्रत्ययान्तान्मप् निवृत्तेऽर्थे । नित्यग्रहणात् क्रिर्मविषयः । अत एव ज्यन्तेन न विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्रिमम् । डुवप् । उप्तिमम् ॥ द्वितोऽथुच ।३।३।८९ ॥ अयमपि खभावाद् भाव एव । टुवेष्ट । वेपथुः । श्वयथुः ॥ यजयाचयतविच्छप्रच्छरक्षो नङ् ।३।३।९०॥ यज्ञः । याच्या । यत्नः । विश्नः । प्रश्नः । प्रश्ने चासन्नति ज्ञापकान्न संप्रसारणम् । ङित्त्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥ स्वपो नन् ।३।३।९१ ॥ खप्नः ॥ उपसर्गे घोः किः ।।३।९२ ॥ प्रधिः । अन्तर्धिः । उपा
४१