________________
३२०
सिद्धान्तकौमुद्याम् ३२३५३ ॥ प्रग्राहः । प्रग्रहः ॥ वृणोतेराच्छादने ३२३३५४ ॥ विभाषा प्र इत्येव । प्रवारः । प्रवरः ॥ परौ भुवोऽवज्ञाने ।।३।५५ ॥ परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥ एरच् ।३।३५६॥ चयः । जयः ॥ भयादीनामुपसंख्यानम् * ॥ नपुंसके क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् ॥ ऋदोरप ॥३३३३५७ ॥ ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥ वृक्षासनयोर्विष्टरः ।३।९३ ॥ अनयोर्विपूर्वस्य स्त्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । वृक्षेत्यादि किम् । वाक्यस्य विस्तरः ॥ ग्रहवृहनिश्चिगमश्च ।३।३१५८॥ अप् स्यात् । घनचोरपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः ॥ वशिरण्योरुपसंख्यानम् * ॥ वशः । रणः ॥ घअर्थे कविधानम् * ॥ प्रस्थः । विघ्नः । द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम् * ॥ चक्रम् । चिक्लिदम् । चक्नसः ॥ उपसर्गेऽदः ।।३।५९ ॥ अप् स्यात् ॥ घञपोश्च ।।४।३८ ॥ अदेर्घस्ल स्यात् घनि अपि च । प्रघसः । विघसः । उपसर्गे किम् । घासः ॥ नौ ण च ।३।३।६०॥ नौ उपपदे अदेणः स्यादप् च । न्यादः । निघसः॥ व्यधजपोरनुपसर्गे ।३।३।६१ ॥ अप् स्यात् । व्यधः । जपः । उपसर्गे तु आव्याधः । उपजापः ॥ वनहसोर्वा ३३२६२॥ अप् । पक्षे पञ् । खनः । खानः । हसः । हासः। अनुपसर्गे इत्येव । प्रखानः । प्रहासः ॥ यमः समुपनिविषु च ।३।३।६३॥ एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । बियामः । यमः । यामः ॥ नौ गदनदपठखनः ॥३॥३॥६४॥ अप् वा स्यात् । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । निखनः । निखानः ॥ कणो वीणायां च ।३।३।६५ ॥ नावनुपसर्गे च वीणाविषयाच्च कणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्कणः । निक्काणः । कणः । वाणः । वीणायां तु । प्रक्वणः । प्रकाणः ॥ नित्यं पणः परिमाणे ।।३।६६॥ अप् स्यात् । मूलकपणः । शाकपणः । व्यवहारार्थ मूलकादीनां परिमितो मुष्टिबध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥ मदोऽनुपसर्गे।३।३।६७ ॥ धनमदः । उपसर्गे तु । उन्मादः ॥ प्रमदसंमदी हर्षे ॥३॥३॥१८॥ हर्षे किम् । प्रमादः । संमादः ॥ समुदोरजः पशुषु ।३।३।६९ ॥ संपूर्वोऽजिः समुदाये उत्पूर्वश्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणाम् ॥ अक्षेषु ग्लहः ॥३॥३७० ॥ अक्षशब्देन देवनं लक्ष्यते । तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । अक्षस्य ग्लहः । व्यात्युक्षीमभिसरणग्लहामदीव्यन् । अक्षेषु किम् । पादस्य ग्रहः ॥ प्रजने सर्तेः।३३३३७१ ॥ प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि संज्ञायामिति घः ।। ह्रः संप्रसारणं च न्यभ्युपविषु ३३३३७२ ॥ निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रायः ॥