________________
३१६
सिद्धान्तकौमुद्याम्
कन्यन् प्रत्ययः । हिरण्यम् ॥ कृञः पासः ॥ कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ॥ जनेस्तु रश्च ॥ जर्तुर्हस्ती योनिश्च ॥ ऊर्णोतेर्डः ॥ ऊर्णा ॥ दधातेर्यत् नुट् च ॥ धान्यम् ॥ जीर्यतेः क्रिन् रश्च वः ॥ जित्रिः स्यात्कलपक्षिणोः । बाहुलकाद्धलि चेति दीर्घो न ॥ मव्यतेर्यलोपो मश्चापतुट् चालः ॥ मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ॥ ऋजेः कीकन् ॥ ऋजीक इन्द्रो धूमश्च ॥ तनोतेर्डउः सन्वच्च ॥ तितउः पुंसि क्लीबे च ॥ अर्भकपृथुकपाका वयसि ॥ ऋधु वृद्धौ । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ॥ अवद्यावमाधमार्वरेफाः ॥ कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षेधः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकात् अः । रेफः ॥ लीङो र्हखः पुट् च तरौ श्लेषणकुत्सनयोः ॥ तरौ प्रत्ययौ क्रमात् स्तो धातोई॒वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ॥ क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ॥ क्लिशेः कन् स्यात् उपधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्त्वफलं चिन्त्यम् || अश्नोतेराशुकर्मणि वरट् च ॥ चकारादुपधाया ईत्वम् । ईश्वरः ॥ चतेरुरन् ॥ चत्वारः ॥ प्राततेररन् ॥ प्रातः ॥ अमेस्तुद् च ॥ अन्तर्मध्यम् || दहेर्गो लोपोदश्च नः ॥ गप्रत्ययो धातोरन्त्यस्य लोपो दकारस्य नकारः । नगः ॥ सिचेः संज्ञायां हनुमौ कश्च ॥ सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ॥ व्याङि घातेश्च जातौ ॥ कप्रत्ययः स्यात् । व्याघ्रः ॥ हन्तेरच् घुर च ॥ घोरम् | क्षमेरुपधालोपश्च ॥ चादच् । क्ष्मा || तरतेर्ह्रिः ॥ त्रयः । त्रीन् ॥ ग्रहेरनिः ॥ ग्रहणिः । ङीष् । ग्रहणी व्याधिभेदः ॥ प्रथेरमच् ॥ प्रथमः ॥ चरेश्च ॥ चरमः ॥ मङ्गेरलच् ॥ मङ्गलम् ॥
॥ इत्युणादिषु पञ्चमः पादः ॥
॥ अथ उत्तरकृदन्तम् ॥
उणादयो बहुलम् ||३|३ | १ ॥ एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूयाः । संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥ भूतेऽपि दृश्यन्ते | ३|३| २ || भविष्यति गम्यादयः | ३ | ३ | ३ || दाशगोघ्नौ संप्रदाने | ३|४|७३ ॥ एतौ संप्रदाने कारके निपात्येते । दाशन्ति अस्मै दाशः । गां हन्ति अस्मै गोनोऽतिथिः ॥ भीमादयोऽपादाने ३ | ४ |७४ || भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥ ताभ्यामन्यत्रोणादयः | ३ | ४/७५ || संप्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥ तुमु