________________
कृदन्तम् उणादिषु पञ्चमः पादः । विश्वे ॥ विश्ववेदाः । विश्वभोजाः ॥ वशेः कनसिः॥ संप्रसारणम् । उशनाः ॥
. ॥ इत्युणादिषु चतुर्थः पादः ॥ अदि भुवो डुतच् ॥ अद्भुतम् ॥ गुधेरूमः ॥ गोधूमः ॥ मसेरूरन् । मसूरः । प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ॥ स्थः किच्च ॥ स्थूरो मनुष्यः ॥ पातेरतिः ॥ पातिः स्वामी । संपातिः पक्षिराजः ॥ वातेर्नित् ॥ वातिरादित्यसोमयोः । अर्तेश्च ॥ अरतिरुद्वेगः ॥ तृहे को हलोपश्च ॥ तृणम् ॥ वृञ्लुटितनिताडिभ्य उलच तण्डश्च ॥ त्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ॥ दंसेष्टटनौ न आ च ॥ दासः सेवकशूद्रयोः ॥ दंशेश्च ॥ दाशो धीवरः ॥ उदि चेडेसिः ॥ खरादिपाठादव्ययत्वम् । उच्चैः ॥ नौ दीर्घश्च ॥ नीचैः ॥ सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः ॥ रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्त्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ॥ पूजो यण्णुक् हस्खश्च ॥ यत्प्रत्ययः । पुण्यम् ॥ स्रंसेः शिः कुट् किच्च ॥ स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ॥ अर्तेः क्युरुच्च ॥ उरणो मेषः ॥ हिंसेरीरनीरचौ॥ हिंसीरो व्याघ्रदुष्टयोः ॥ उदि हणातेरजलौ पूर्वपदान्त्यलोपश्च ॥ उदरम् ॥ डित् खनेर्मुट् स चोदात्तः ॥ अच् अल च डिस्याद्धातोर्मुट् स चोदात्तः । मुखम् ॥ अमेः सन् ॥ अंसः ॥ मुहेः खो मूर्च ॥ मूर्खः ॥ नहेर्हलोपश्च ॥ नखः महेश्च मखः ॥ शीडो ह्रस्वश्च ॥ शिखा ॥ माङ ऊखो मय च ॥ मयूखः ॥ कलिगलिभ्यां फगस्योच ॥ कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ॥ स्पशेः श्वशुनौ पृ च ॥ श्वशुनौ प्रत्ययौ पृ इत्यादेशः । पार्थोऽस्त्री कक्षयोरधः । पशुरायुधम् ॥ इमनि श्रयतेर्छन् ॥ श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रु ॥ अश्वादयश्च ॥ अश्रु नयनजलम् ॥ जनेष्टन् लोपश्च ॥ जटा ॥ अच् तस्य जङ्घ च ॥ तस्य जनेः जवादेशः स्यादच्च । जङ्घा ॥ हन्तेः शरीरावयवे द्वे च ॥ जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ क्लिशेरन् लो लोपश्च ॥ लकारस्य लोपः । केशः ॥ फलेरितजादेश्च पः॥ पलितम् ॥ कृत्रादिभ्यः संज्ञायां वुन् ॥ करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ॥ चीकयतेराद्यन्तविपर्ययश्च ॥ कीचको वंशभेदः ॥ पचिमच्योरिचोपधायाः॥ पेचकः । मेचकः ॥ जनेररष्ठ च ॥ जठरम् ॥ वचिमनिभ्यां चिच्च ॥ वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः । गर्गादित्वान्माठयः ॥ ऊर्जि दृणातेरलचौ पूर्वपदान्त्यलो पश्च ॥ ऊर्दरः शूररक्षसोः ॥ कृदरादयश्च ॥ कृदरः कुसूलः । मृदरं विलसत् । सुदरः सर्पः ॥ हन्तेयुन्नाद्यन्तयोर्घत्वतत्वे ॥ घातनो मारकः ॥ ऋमिगमिक्षमिभ्यस्तुन् वृद्धिश्च ॥ कान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ॥ हयतेः कन्यन् हिरच ॥