________________
३१२
सिद्धान्तकौमुद्याम् लिश्वाहिरण्ये ॥ वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यगजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ॥ वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ् ॥ वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः। राजी । ब्राजितालिः सादिः । सारथिः । निघातिर्लोहघातिनी । वाशिरमिः । वादिविद्वान् । वारिगजबन्धनी । जले तु क्लीबम् । बाहुलकाद्धारिः पथिकसंहतौ ॥ नहो भश्च ॥ नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियां पुंस्यपीति केचित् ॥ कृषद्धिश्छन्दसि ॥ कार्षिः ॥ श्रः शकुनौ ॥ शारिः शारिका ॥ कृत उदीचां कारुषु ॥ कारुः शिल्पी ॥ जनिघसिभ्यामिण् ॥ जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ॥ अज्यतिभ्यां च ॥ आजिः संग्रामः । आतिः पक्षी ॥ पादे च ॥ पदाजिः । पदातिः ॥ अशिपणाय्यो रुडायलुकौ च ॥ अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ॥ वातेर्डिच्च ॥ विः पक्षी । स्त्रियां वीत्यपि ॥ प्रे हरतेः कूपे ॥ प्रहिः कूपः ॥ नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥ व्येस इण् स्याद् यलोपश्च । नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ॥ समाने ख्यः स चोदात्तः ॥ समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डित् यलोपश्च । समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ॥ आङि श्रिहनिभ्यां हखश्च ॥ इण् स्यात्स च डित् आङो हखश्च । स्त्रियः पाल्यश्रिकोटयः । सर्प वृत्रासुरेऽप्यहिः॥ अच इः॥ रविः । पविः । तरिः । कविः॥ अरिः । अलिः ॥ खनिकष्यज्यसिवसिवनिसनिध्यनिग्रन्थिचलिभ्यश्च ॥ खनिः । कषिहिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरमिः । सनिर्भक्तिर्दानं च ॥ ध्वनिः । ग्रन्थिः । चलिः पशुः ॥ वृतेश्छन्दसि ॥ वर्तिः ॥ भुजेः किच ॥ भुजिः ॥ कृगृशृपृकुटिभिदिछिदिभ्यश्च ॥ इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिनगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ॥ कुडिकम्प्योर्नलोपश्च ॥ कुडि दाहे । कुडिदेहः । कपिः ॥ सर्वधातुभ्यो मनिन् ॥ क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । इस्मन्निति हस्खः । छद्म । सुत्रामा ॥ बृहेर्नोच ॥ नकारस्याकारः । ब्रह्म तत्त्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ॥ अशिशकिभ्यां छन्दसि ॥ अश्मा । शक्मा ॥ हृभृधृसृस्तृशृभ्य इमनिच् ॥ हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ॥ जनिमृङ्भ्यामिमनिन् ॥ जनिमा जन्म । मरिमा मृत्युः ॥ वेञः सर्वत्र ॥ छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ॥ नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् धामन् ॥ सप्त अमी निपात्यन्ते । नायतेऽनेनेति नाम । १ ध्यामन् इति क्वचित्पाठः ॥