________________
कृदन्ते उणादिषु द्वितीयः पादः।
२९९ निघृण्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेते. ऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो इखत्वम् । पट्टो रथो भूलोकश्च । प्रहूयते इति प्रहः । ह्वेन आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अखतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् हसतेः । इखः ॥ शेवयह्वजिह्वाग्रीवाप्व. मीवाः॥ शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन यह्वः ॥ ह्रखो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । आप्नोतीत्याप्वा वायुः। मीवा उदरकृमिः । वायुरित्यन्ये॥ कृगृशदभ्यो वः॥ कर्वः काम आखुश्च । गर्वः । शर्वः। दवों राक्षसः ॥ कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ॥ यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । धुवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ॥ सप्यशूभ्यां तुट् च ॥ सप्त । अष्ट । नजि जहातेः ॥ अहः॥ श्वन्नुक्षन्पूषनप्लीहनक्लेदनलेहन्मूर्धन्मजन्नर्यमविश्वप्सन्परिज्मन्मातरिश्वन्मघवन्निति ॥ एते त्रयोदश कनिन्प्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा । पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहति इति प्लीहा कुक्षिव्याधिः ॥ क्लिदू आर्दीभावे । क्लिद्यतीति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् । अर्यमा । विश्वं प्साति विश्वप्सा अग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः। मह पूजायाम् । हस्य घो वुगागमश्च । मघवा इन्द्रः ॥
॥ इत्युणादिषु प्रथमः पादः॥ कृहृभ्यामेणुः ॥ करेणुः । हरेणुर्गन्धद्रव्यम् ॥ हनिकुषिनरिकाशिभ्यः कथन् ॥ हथो. विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ॥ अवे भृतः॥ अवभृथः॥ उषिकुषिगार्तिभ्यः स्थन् ॥ ओष्ठः । कोष्ठम् । गाथा । अर्थः । बाहुलकात् शोथः॥ सतेर्णित् ॥ सार्थः समूहः ।। वृञ्भ्यामूथन् ॥ जरूथं मांसम् । वरूथो रथगुप्तौ ना ॥ पातृतुदिवचिरिचिसिचिभ्यस्थक् ॥ पीथो रविघृतं पीथम् । तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमत्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽमिः । उक्थं सामभेदः । रिक्थम् । बाहुलकाचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ॥ अर्तेनिरि ॥ निर्ऋथं साम ॥ निशीथगोपीथावगथाः॥ निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः॥गश्चोदि ॥ उद्गीथः सानो भागविशेषः ॥समीणः॥ समिथो वह्निः संग्रामश्च ॥ तिथपृष्ठगूथयूथप्रोथाः ॥ तिजे लोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ॥ स्फायितश्चिवञ्चिशकिक्षिपिक्षुदिमृपितृपिपिवन्ान्दिश्वितिवृत्यजिनीप