________________
२९८
सिद्धान्तकौमुद्याम् गम्यद्योः॥ गङ्गा । अद्गः पुरोडाशः ॥ छापूख डिभ्यः कित् ॥ छागः । पूगः । खड्गः। बाहुलकात् । पिट अनादरे गन्सत्वाभावश्च । षिङ्गः तरलः । षिझैरगद्यत ससंभ्रममेवमेकेति माघः ॥ भृतः किन्नुट् च ॥ भृञो गन् कित्स्यात्तस्य नुट् च । भृङ्गाः पिङ्गालिधूम्याटाः ॥ शृणातेहखश्च ॥ शृङ्गम् ॥ गण शकुनौ ॥ नुट् चेत्यनुवर्तते । शाङ्गः ॥ मुदिग्रो. र्गग्गौ ॥ मुद्गः । गर्गः ॥ अण्डन् कृमृभृवृनः ॥ करण्डः । सरण्डः पक्षी । भरण्डः खामी । वरण्डो मुखरोगः ॥ शृदृभसोऽदिः॥ शरत् । दरद्धृदयकूलयोः । भसज्जधनम् ॥ दृणातेइंग इस्खश्च ॥ दृषत् ॥ त्यजितनियजिभ्यो डित् ॥ त्यद् । तद् । यद् । सर्वादयः ॥ एतेस्तुट् च ॥ एतद् ॥ सर्तेरटिः॥ सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरड्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ॥ लछर्नलोपश्च ॥ लघट वायुः ॥ पारयतेरजिः ॥ पारक् सुवर्णम् ॥ प्रथः कित्संप्रसारणं च ॥ पृथक् । स्वरादिपाठादव्ययत्वम् ॥ भियः षुग हृवश्च ॥ भिषक् ॥ युष्यसिभ्यां मदिक् ॥ युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ॥ अर्तिस्तुसुहुमृधृभिक्षुभायावापदियक्षिनीभ्यो मन् ॥ एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षुरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः । क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः। नेमः ॥ जहातेः सन्वदालोपश्च ॥ जिह्मः कुटिलमन्दयोः॥ अवतेष्टिलोपश्च ॥ मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । ज्वरत्वरेत्यूठौ । तयोर्दीधं कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु खरादिपाठादव्ययत्वम् । अवतीति ओम् ॥ ग्रसेरा च ॥ ग्रामः ॥ अविसिवि. सिशुषिभ्यः कित् ॥ ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ॥ इषियुधीन्धिदसिश्याधूसूभ्यो मक् ॥ इष्मः कामवसन्तयोः । ईषीति पाठे दीर्धादिः । युध्मः शरो योद्धा च । इध्मः समित् । दसो यजमानः । श्यामः । धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीम व्रणः ॥ युजिरुचितिजां कुश्च ॥ युग्मम् । रुक्मम् । तिग्मम् ॥ हन्तेहि च ॥ हिमम् ॥ भियः षुग्वा ॥ भीमः । भीष्मः ॥ धर्मः॥ घृधातोर्मग्गुणश्च निपात्यते ॥ ग्रीष्मः ॥ असतेर्निपातोऽयम् ॥ प्रथेः षिवन् संप्रसारणं च ॥ पृथिवी । षवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ॥ अशूपुषिलटिकणिखटिविशिभ्यः कन् ॥ अश्वः । पुष नेहनादौ । प्रुष्वः स्याहतुसूर्ययोः । पुष्वा जलकणिका । लट्टा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ॥ इण्शीभ्यां वन् ॥ एवो गन्ता । येच एवा मरुतः । असत्त्वे निपातोऽयम् । शेवं मित्राय वरुणाय ॥ सवेनीघृष्वरिष्वलष्वशिवपट्टप्रहेष्वा अखतन्त्रे ॥ अक. तयेते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्धृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन