________________
कृदन्ते उणादिषु प्रथमः पादः।
२९७ च ॥ ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तुर्देवनदी सत्यवाक् च ॥ अन्द्रहम्भूजम्बूकफेलूकर्कन्धूदिधिषूः ॥ एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनानुम् । हम्भूः । अनुखाराभावोऽपि निपातनादित्येके । दृम्भूः ॥ जनेबुक् ॥ जम्बूः । जमु अदनेऽस्येत्येके । बाहुलकाङ्खोऽपि । जम्बुः । कर्फ लाति कफेलूः श्लेष्मातकः । निपातनादेत्त्वम् । कर्क दधाति कर्कन्धर्बदरी । निपातनान्नुम् । दिधिं धैर्य स्यति त्यजतीति दिधिषः पुनर्भूः । केचित्तु अन्दूदृम्फूजम्बूकम्बू इति पठन्ति । दृम्फ उत्क्लेशे । दृम्फूः सर्पजातिः । कमेर्बुक् । कम्बूः परद्रव्यापहारी ॥ मृग्रोरुतिः ॥ मरुत् । गरुत्पक्षः ॥ ग्रो मुट् च ॥ गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्ण तृणविशेषश्च ॥ हृषेरुलच् ॥ हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ॥ हृमृरुहियुषिभ्य इतिः॥ हरिककुभि वर्णे च तृणवाजिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । मत्स्यस्य रोहित् पुरुषस्य योषित् इति भाष्यम् ॥ ताडेर्णिलक् च ॥ ताडयतीति तडित् ॥ शमेढेः॥ बाहुलकादित्संज्ञा एयादेश इट च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ॥ कमेरठः ॥ कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाजरठः ॥ रमेवृद्धिश्च ॥ रामठं हिङ्गु । शमेः खः ॥ शङ्खः ॥ कणेष्ठः॥ कण्ठः ॥ कलस्तृपश्च ॥ तृपतेः कलप्रत्ययः चात्तफतेः । तृपला लता । तृफला तु फलत्रिकम् ॥ शपेश्च ॥ शबलः ॥वृषादिभ्यश्चित् ॥ वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । कमेर्बुक् । कम्बलः । मुस खण्डने । मुसलम् ।। लङ्गेद्धिश्च ॥ लाङ्गलम् ॥ कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् । कुट्मलः । कुडेरपि कुड्मलः । कश्मलम् । बाहुलकाद्गुणः । कोमलम् ॥ मृजेष्टिलोपश्च ॥ मलम् ॥ चुपेरचोपधायाः ॥ चपलम् ॥ शकिशम्योर्नित् ॥ शकलम् । शमलम् ॥ छो गुक् हवश्च ॥ छगलः । प्रज्ञादित्वाच्छागलः ॥ अमन्ताडः ॥ दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सत्वाभावः । षण्डः । संघातः । तालव्यादिरित्यपरे । शण्डः । गण्डः। चण्डः । पण्डः । क्लीवः । पण्डा बुद्धिः ॥ कादिभ्यः कित् ॥ कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः।। स्थाचतिमृजेरालज्वालजालीयचः॥ तिष्ठतेरालच् । स्थालम् । स्थाली । चते. लच् । चात्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ॥ पतिचण्डिभ्यामालञ् ॥ पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ॥ तमिविशिबिडिमृणिकुलिकपिपलिपश्चिभ्यः कालन् ॥ तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ॥ पतेरङ्गच पक्षिणि ॥ पतङ्गः ॥ तरत्यादिभ्यश्च ॥ तरङ्गः । लवङ्गम् ॥ विडादिभ्यः कित् ॥ विडङ्गम् । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ॥ मृवृनोवृद्धिश्च ॥ सारङ्गः । वारङ्गः खड्गादिमुष्टिः ॥ गन्