________________
२९४
सिद्धान्तकौमुद्याम् आदेरिकारादेशश्च ॥ ईषते हिनस्ति इषुः शरः । इपुर्द्वयोः ॥ स्कदेः सलोपश्च ॥ कन्दुः ॥ सृजेरसुम् च ॥ चात्सलोप उप्रत्ययश्च । रज्जुः ॥ कृतेराद्यन्तविपर्ययश्च ॥ ककारत कारयोविनिमयः । तद्दुः सूत्रवेष्टनम् ॥ नावञ्चेः॥ न्यवादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कगः ॥ फलिपाटिनमिमनिजनां गुपटिनाकिधतश्च ॥ फलेगुक् । फल्गुः । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ॥ वलेगुंक्च ॥ वल संवरणे । वल्गुः ॥ शः कित्सन्वच्च ॥ श्यतेरुः स्यात्स च कित्सन्वच । शिशुर्बालः ॥ यो द्वे च ॥ ययुरश्वोऽश्वमेघीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ॥ कुभ्रंश्च ॥ बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जनुर्हन्ता । पपुः पालकः ॥ पृभिदिव्यधिगृधिधृषिभ्यः ॥ कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । अहिज्येति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः । कृग्रोरुच ॥ करोतीति कुरुः । गृणातीति गुरुः ॥ अपदुस्सुषु स्थः॥ सुषामादिषु चेति षत्वम् । अपष्ठ प्रति. कूलम् । दुष्ठु । सुष्टु ॥ रपेरिच्चोपधायाः ॥ अनिष्टं रपतीति रिपुः ॥ अर्जिशिकम्यमिपशिबाधामृजिपशितुक्धुक्दीर्घहकाराश्च ॥ अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः । कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः ॥ बाधते इति बाहुः । स्त्रीपुंसयोर्भुजः ॥ प्रथिम्रदिभ्रसूजां संप्रसारणं सलोपश्च ॥ त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यवादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ॥ लडिबंडोनलोपश्च ॥ लघुः ॥ बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते ॥ रघु पभेदः । बहुः ॥ ऊर्णोतेर्नुलोपश्च ॥ ऊरु सक्थि ॥ महति हखश्च ॥ उरु महत् ॥ श्लिषेः कश्च ॥ श्लिष्यतीति श्लिकुम॒त्यः उद्यतो ज्योतिश्च ॥ आइपरयोः खनिशृभ्यां डिच्च । आखनतीत्या
खुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शरपि ॥ हरिमितयोर्दुवः ॥ द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभि यते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ॥ शते च ॥ शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यू.
मिति दुर्वृक्षः शाखा च । तद्वान् द्रुमः ॥ खरु शङ्कु पीयु नीलङ्गु लिगु ॥ पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः ॥ पिबेतरीत्वं युगागमश्च । पीयुर्वायसः कालः सुवर्ण च । निपूर्वाल्लगि गताबित्यस्मात्कुत्वं नेर्दीर्घश्च । नीलङ्गुः क्रिमिविशेषः शृगालश्च । नीलाङ्गुरिति पाठान्तरम् । तत्र धातोरपि दीर्घः । लगे सङ्गे । अस्य अत इत्वं च । लगतीति लिगु चितम् । लिगुर्मूर्खः ॥ मृगय्वादयश्च ॥ एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयं ॥ मन्दिवाशिमथिचतिचक्य