________________
२९२
सिद्धान्तकौमुद्याम् पपिः सोमं ददिर्गाः । बर्विज्रम् । जग्मियुवा । जन्निवत्रममित्रियम् । जज्ञिः ॥ भाषायां धामकृसृगमिजनिनमिभ्यः * ॥ दधिः । चक्रिः । सनिः । जग्मिः । जज्ञिः । नेमिः । सासहिवावहिचाचलिपापतीनामुपसंख्यानम् * ॥ यङन्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेनींगभावश्च निपात्यते ॥ खपितृषोनेजिङ।३।२।१७२॥ स्वमक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥ शृवन्द्योरारुः ।३।२।१७३ ॥ शरारुः । वन्दारुः ॥ भियः क्रुक्लकनौ ३।२।१७४॥ भीरुः । भीलुकः ॥ क्रुकन्नपि वाच्यः * भीरुकः ॥ स्थेशभासपिसकसो वरच् ।३।२।१७५ ॥ स्थावरः । ईश्वरः । भाखरः । पेखरः । कखरः॥ यश्च यङः ।।२।१७६॥ यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः । तस्य अचः परस्मिन्निति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । तस्य यलोपं प्रति स्थानिवद्भावनिषेधालोपो व्योरिति यलोपः। अल्लोपस्य स्थानिवत्त्वमाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥ भ्राजभासधुर्विद्युतोर्जिजुग्राव. स्तुवः किम् ।३।२।१७७॥ विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । ऊौं । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः विप् । ग्रावस्तुत् ॥ अन्येभ्योऽपि दृश्यते ।३।२।१७८॥ विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । कचिद्दीर्घः कचिदसंप्रसारणं कचिवे कचिखः । तथा च वार्तिकम् ॥ विब्वचिप्रच्छयायतस्तुकटपुजुश्रीणां दीर्घोऽसंप्रसारणं च * किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जुरुक्तः । श्रयति हरिं सा श्रीः ॥ द्युतिगमिजुहोतीनां द्वे च * ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् ॥ जुहोतेर्दीर्घश्च ॥ जुहूः । दृ भये । अस्य हखश्च । दीर्यति ददृत् ॥ ध्यायतेः संप्रसारणं च * धीः ॥ भुवः संज्ञान्तरयोः ।।२।१७९॥ मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥ विप्रसंभ्यो ड्वसंज्ञायाम् ।३।२।१८०॥ एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभुर्व्यापकः । प्रभुः स्वामी। संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् ॥ मितद्वादिभ्य उपसंख्यानम् * ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥ धः कर्मणि ष्ट्रन् ।।२। १८१॥ धेटो धाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ दानीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।३।२।१८२ ॥ दाबादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥ तितुत्रतथसिसुसरकसेषु च । ७२।९॥ एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रस् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढूंम् । पत्रम् । दंष्ट्रा । नधी ॥ हलसूकरयोः पुवः ।।२। १८३ ॥ पूतजोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा १ अत एव ज्ञापकाल्लुप्ताकारस्य ङित्त्वम् । तेन यातिरित्यादौ यङन्तात् क्तिनि आतो लोपसिद्धिः ॥