________________
२९१
कृदन्तम् । अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥ जुचक्रम्यदन्द्रम्यमृगृधिज्वलशुचलषपतपदः ३।२।१५०॥जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चक्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपदेत्युकना बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥ क्रुधमण्डार्थेभ्यश्च ।३।२।१५१॥ क्रोधनः । रोषणः । मण्डनः । भूषणः ॥ न यः ।३।२।१५२ ॥ यकारान्ताधुच् न स्यात् । क्नूयिता । क्ष्मायिता ॥ सूददीपदीक्षश्च ।३।२।१५३ ॥ युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पीति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥ लषपतपदस्थाभूवृषहनकमगमगृभ्य उकञ् ।३।२।१५४ ॥ लाषुकः । पातुक इत्यादि । जल्पभिक्षकुलुण्टवृङः षाकन् ।३।२।१५५ ॥ जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी । प्रजोरिनिः।३।२।१५६॥ प्रजवी । प्रजविनौ । प्रजविनः ॥ जिक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ।३।२।१५७ ॥ जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी प्रसवी ॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच ।३।२।१५८ ॥ आद्यास्त्रयश्धुरादावदन्ताः ॥ स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः ॥ तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः श्रद्धालुः ॥ शीङो वाच्यः * ॥ शयालुः ॥ दाधेसिशदसदो रुः ।३२।१५९ ॥ दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥ सृघस्यदः क्मरच् ।३।२।१६० ॥ सृमरः । घस्मरः । अमरः ॥ भञ्जभासमिदो घुरन् ।३।२।१६१ ॥ भङ्गुरः । भासुरः । मेदुरः ॥ विदिभिदिच्छिदेः कुरच् ।३।२।१६२॥ विदुरः । भिदुरम् । छिदुरम् । इण्नशजिसर्तिभ्यः करप् ।३।२।१६३ ।। इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥ गत्वरश्च ।३।२।१६४॥ गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥ जागरूकः ।।२।१६५ ॥ जागर्तेरूकः स्यात् । जागरूकः ॥ यजजपदशां यङः ।३।२।१६६ ॥ एभ्यो यङन्तेभ्य ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशुकः ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः ।।२।१६७॥ नम्रः । कम्प्रः । मेरः । जसिनपूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीपः ॥ सनाशंसभिक्ष उः।३।२।१६८॥ चिकीर्षुः । आशंसुः । भिक्षुः ॥ विन्दुरिच्छुः ।।२।१६९॥ वेत्तेर्नुम् इषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दुः । इच्छति इच्छुः ॥ क्याच्छन्दसि ।।२।१७० ॥ देवाञ्जिगाति सुम्नयुः ॥ आगमहनजन: किकिनौ लिट् च ।३।२।१७१॥ आदन्तादृदन्ताद्मादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्डत् ।