________________
२९०
सिद्धान्तकौमुद्याम् तत्साधुकारिषु कर्तृषु बोध्याः ॥ तृन् ।३।२।१३५ ॥ कर्ता कटान् ॥ अलंकृनिराकृअप्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ।३।२।१३६॥ अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥ श्छन्दसि ।। १३७॥ वीरुधः पारयिष्णवः ॥ भुवश्च ।३।२।१३८॥ छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णु वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥ ग्लाजिस्थश्च रस्तुः ।। १३९ ॥ छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थ ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्युकः कितीत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥ दंशेश्छन्दस्युपसंख्यानम् ॥ दक्ष्णवः पशवः ॥ त्रसिगृधिधृषिक्षिपेः क्रुः ।।२।१४० ॥ त्रस्नुः । गृनुः । धृष्णुः । क्षिप्नुः ॥ शमित्यष्टाभ्यो घिनुण् ३।२।१४१ ॥ उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र उगितश्चेति हलविकल्पः । न चैवं शमी शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झलन्तानामेव तद्विधानात् । नोदात्तोपदेशस्येति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥ संपृचानुरुधाड्यमाङयसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ।३।२१४२ ॥ घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही परिमोही । दोषी । द्वेषी । द्रोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्याघाती ॥ वौ कषलसकत्थरम्भः ॥२॥ १४३॥ विकाषी । विलासी । विकत्थी । विस्रम्भी ॥ अपे च लषः।३।२।१४४॥ चाद्वौ । अपलाषी । विलाषी ॥ प्रे लपस्टुमथवदवसः। ॥२॥१४५ ॥ प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूनो वुञ् ।३।२।१४६॥ पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुवचनं ज्ञापकं तच्छीलादिषु वासरूपन्यायेन तृजादयो नेति ॥ देविक्रुशोश्चोपसर्गे ।३।२।१४७॥ आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता क्रोष्टा ॥ चलनशब्दार्थादकर्मकायुच् ।।२। १४८ ॥ चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात्किम् । पठिता विद्याम् ॥ अनुदात्तेतश्च हलादेः ।।२।१४९॥