________________
कृदन्तम् ।
२८९
सदादिभ्यो भूतसामान्ये भाषायां लिड़ा स्यात् तस्य च नित्यं वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवजनस्य । शुश्रुवान् ॥ उपेयिवाननाश्वाननूचानश्च ।।२। १०९॥ एते निपात्यन्ते उपपूर्वा दिणो भाषायामपि भूतमात्रे लिड़ा तस्य नित्यं वसुः । इट् । उपेयिवान् । उपेयुषः खामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवाम् । नञ्पूर्वादश्नातेः वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥ विभाषा गमहनविदविशाम् ।।२।६८॥ एभ्यो वसोरिड्डा । जग्मिवान् । जगन्वान् । जनिवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेहणम् । वेत्तेस्तु विविद्वान् । नेडशि कृतीतीनिषेधः ॥ दृशेश्च * ॥ ददृशिवान् । ददृश्वान् ॥ लटः शतृशानचावप्रथमासमानाधिकरणे ।३।२।१२४ ॥ अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥ आने मुक् ।१२।८२॥ अदन्ताङ्गस्यातो मुमागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लङ्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि कचित् । सन् ब्राह्मणः ॥ माड्याक्रोशे इति वाच्यम् * ॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । माङि लुङिति प्राप्ते एतद्वचनसामर्थ्याल्लट् ॥ संबोधने च ।३।२।१२५ ॥ हे पचन् । हे पचमान ॥ लक्षणहेत्वोः क्रियायाः।३।२।१२६॥ क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च ॥ कृत्यचः ।८।४।२९ ॥ प्रपीयमाणः सोमः ॥ ईदासः ।।२।८३ ॥ आसः परस्यानस्य ईत्स्यात् । आदेः परस्य । आसीनः ॥ विदेःशर्तुवसुः॥१॥३६॥ वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥ तौ सत् ।।२।१२७ ॥ तौ शतृशानचौ सत्संज्ञौ स्तः ॥ लटः सद्वा ।३।३।१४ ॥ व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः । करिष्यद्भक्तिः । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमासामानाधिकरण्येऽपि कचित् । करिष्यतीति करिष्यन् ॥ पूयजोः शानन् ।३।२।१२८॥ वर्तमाने । पवमानः यजमानः ॥ ताच्छील्यवयोवचनशक्तिषु चानश ।।२। १२९ ॥ एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणः । शत्रून्निघ्नानः ॥ इधार्योः शत्रकृच्छिणि ।।२।१३० ॥ आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छिणि किम् । कृच्छ्रेणाधीते । धारयति ॥ द्विषोऽमित्रे ॥२॥ १३१ ॥ द्विषन् शत्रुः ॥ सुनो यज्ञसंयोगे ।।२।१३२॥ सर्वे सुन्वन्तः । सर्वे यजमानाः सत्रिणः ॥ अर्हः प्रशंसायाम् ।।२।१३३ ॥ अर्हन् ॥ आकेस्तच्छीलतद्धमतत्साधुकारिषु ।३।२।१३४ ॥ किपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्म