________________
२८८
सिद्धान्तकौमुद्याम् कर्तरि च ॥ प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थ इति दीर्घः । क्षियो दीर्घादिति णत्वम् । प्रक्षीणः सः ॥ वाऽऽक्रोशदैन्ययोः।६।४।६१ ॥ क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपखी । क्षितो वा ॥ निनदीभ्यां लातेः कौशले ८।३।८९ ॥ आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपीति कः ॥ सूत्रं प्रतिष्णातम् ।८।३। ९०॥ प्रतेः स्नाते षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥ कपिष्ठलो गोत्रो ।३९१ ॥ कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥ विकुशमिपरिभ्यः स्थलम् ।८३।९६॥ एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥ गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च ।।४७२॥ एभ्यः कर्तरि क्तः स्यात् ‘भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः। शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः३२४७६ ॥ एभ्योऽधिकरणे क्तः स्यात् चाद्यथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितमिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वाकर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च । रमापतिरिदं यातः । तेनेदं यातम् । भुजेः कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमस्ति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥ जीतः क्तः ।।२। १८७॥ निक्ष्विदा । क्ष्विण्णः । जिइन्धी । इद्धः ॥ मतिबुद्धिपूजार्थेभ्यश्च ।३।२। १८८ ॥ मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः । इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः। शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥ नपुंसके भावे क्तः ।३।३।११४ ॥ क्लीबत्वविशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ॥ सुयजोनिप् ।३।२। १३० ॥ सुनोतेर्यजेश्च निप्स्याद्भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥ जीर्यतेरतन् ।३।२।१०४ ॥ भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णः । जीर्णवान् ॥ छन्दसि लिट् ।३।२।१०५॥ लिटः कानज्वा ।।२।१०६॥ कसुश्च ।।२।१०७॥ इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ कसुकान चावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥ वखेकाजाद्धसाम् ।।६७ ॥ कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥ भाषायां सदसश्रुवः।३।२।१०८॥