________________
२८६
सिद्धान्तकौमुद्याम् सेण्निष्ठा किन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अवि. स्पष्टमित्यर्थः ॥ उपधाद्भावादिकमणोरन्यतरस्याम् ।।२।२१ ॥ उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः। प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट् किम् । क्रुष्टम् ॥ शब्विकरणेभ्य एवेष्यते * ॥ नेह । गुध्यतेर्गुधितम् ॥ निष्ठायां सेटि ।६।४।५२॥णेलोपः स्यात् ।भावितः । भावितवान् । श्वीदित इति नेट् । संप्रसारणम् । शूनः दीप्तः । गुहू, गूढः । वनु, वतः । तनु, ततः। पतेः सनि वेटूत्वादिडभावे प्राप्ते द्वितीयाश्रितेति सूत्रे निपातनादिट् । पतितः । सेऽसिचीति वेटुत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषेत्यत्रैकाच इत्येव । दरिद्रितः ॥ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमासक्ताविस्पष्टस्वरानायासभृशेषु ॥२॥१८॥ क्षुब्धादीन्यष्टावनिहानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । खान्तं मनः । ध्वान्तं तमः । लमं सक्तम् । . निष्ठानत्वमपि निपातनात् । म्लिष्टमविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टम् । अनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । खनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । वाहितम् ॥ धृषिशसी वैयात्ये ७२।१९॥ एतौ निष्ठायामवि. नये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥ दृढः स्थूलबलयोः ।।२०॥ स्थूले बलवति च निपात्यते । दृह दृहि वृद्धौ । क्तस्येडभावः । तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितः । इंहितोऽन्यः॥ प्रभौ परिवृढः ।।२।२१॥ वृह वृहि वृद्धौ । निपातनं प्राग्वत् । परिवृहितः। परिहितोऽन्यः ॥ कृच्छ्रगहनयोः कषः ॥२॥२२॥ कषो निष्ठाया इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्यात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥ घुषिरविशब्दने ।।२३ ॥ घुषिनिष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥ अर्दैः संनिविभ्यः ।।२।२४ ॥ एतत्पूर्वादर्देर्निष्ठाया इन स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥ अभेश्चाविदर्ये ।२।२५ ॥ अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥ णेरध्ययने वृत्तम् ।।२।२६ ॥ ण्यन्ताद्वृतेः क्तस्येडभावो