________________
कृदन्तम् ।
२८३ यावदधिक्रियते ॥ ब्रह्मभ्रूणवृत्रेषु किप ।।२।८७ ॥ एषु कर्मसूपपदेषु हन्तेर्भूते क्किप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । विप् चेत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिप्वेव हन्तेरेव भूते एव किबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिवेव किबेवेति द्विविधो नियम इति भाष्यम् ॥ सुकर्मपापमन्त्रपुण्येषु कृतः। ३।२।८९ ॥ सौकर्मादिषु च कृञः किप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृत्र एवेति नियमात् मन्त्रं करोति करिष्यति वेति विवक्षायां न किप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे किप् । शास्त्रकृत् । भाष्यकृत् ॥ सोमे सुत्रः ।।२।९० ॥ सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥ अग्नौ चेः३।२।९१ ॥ अग्निचित् ॥ कर्मण्यन्याख्यायाम् ।।२।९२॥ कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥ कर्मणीनिविक्रियः ।।२।९३॥ कर्मण्युपपदे विपूर्वाक्क्रीणातेरिनिः स्यात् ॥ कुत्सितग्रहणं कर्तव्यम् * ॥ सोमविक्रयी घृतविक्रयी ॥ दृशेः कनिप् ।३।२।९४ ॥ कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥ राजनि युधि कृतः।३।२।९५॥ कनिप्स्यात् । युधिरन्त वितण्यर्थः। राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥ सहे च ।।२९६॥ कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥ सप्तम्यां जनेर्डः ॥३।२।९७ ॥ सरसिजम् । मन्दुरायां जातो मन्दुरजः । ड्यापोरिति इखः॥ पञ्चम्यामजातौ ।।२।९८ ॥ जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥ उपसर्गे च संज्ञायाम् ॥३२॥ ९९ ॥ प्रजा स्यात्सन्ततौ जने ॥ अनौ कर्मणि ।।२।१००॥ अनुपूर्वाजनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥ अन्येष्वपि दृश्यते ।।२।१०१॥ अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेष्वपि कचित् । परितः खाता परिखा ॥ तक्तवतू निष्ठा ।।१।२६ ॥ एतौ निष्ठासंज्ञौ स्तः ॥ निष्ठा ।।२।१०२ ॥ भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेवेति भावकर्मणोः क्तः । कर्तरि कृदिति कर्तरि क्तवतुः । उकावितौ । स्नातं मया। स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥ निष्ठायामण्यदर्थे ।६।४। ६०॥ ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥ क्षियो दीर्घात् । ८२।४६॥ दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । युकः किति । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः ॥ ऊर्णोतेणुवद्भावो वाच्यः * ॥ तेन एकाच्त्वान्नेट् । ऊर्गुतः । नुतः । वृतः ॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।८२।४२ ॥ रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शू । ऋत इत् । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धरसिद्धत्वा