________________
२८२
सिद्धान्तकौमुद्याम् मपि दृश्यते । सत्सूद्विषेति त्वस्यैव प्रपञ्चः । उखासत् । पर्णध्वत् । वाहट् ॥ अन्तः।८४।२०॥ पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण । शास इदितीत्वम् । मित्राणि शास्ति मित्रशीः ॥ आशासः को उपधाया इत्वं वाच्यम् * ॥ आशीः । इत्वोत्वे । गीः । पूः । इस्मन्नतिषु च ।६।४।९७॥ एषु छादेईखः स्यात् । तनुच्छत् । अनुनासिकस्य कीति दीर्घः । मोनो धातोः । प्रतान् । प्रशान् । च्छोरित्यूत् । अक्षयूः । ज्वरत्वरेत्यूठ । जूः। जूरौ । जूरः। तूः । सूः । ऊठ । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्बौ । सुम्वः । रालोपः ॥ मुर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥ गमः को ।६।४।४०॥ अनुनासिकलोपः स्यात् । अङ्गगत् ॥ गमादीनामिति वक्तव्यम् * ॥ परीतत् । संयत् । सुनत् ॥ ऊङ्ग च गमादीनामिति वक्तव्यम् * ॥ लोपश्च । अग्रेगूः । अग्रेभ्रूः ॥ स्थः क च ।३।२७७॥ चात् किम् । शंस्थः । शंस्थाः । शमिधातोरित्यचं बाधितुं सूत्रम् ॥ सुप्यजातो णिनिस्ताच्छील्ये ।।२।७८ ॥ अजात्यर्थे सुपि धातोणिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानामन्त्रयिता । ताच्छील्ये किम् । उष्णं मुझे कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्पतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवादिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ ॥ साधुकारिण्युपसंख्यानम् * ॥ ब्रह्मणि वदः * ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुदायी । ब्रह्मवादी ॥ कर्तुर्युपमाने ।।२७९ ॥ णिनिः स्यात् । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रकोशी । ध्वाङ्करावी । अताच्छील्यार्थ जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥ व्रते ।३।२।८०॥ णिनिः स्यात् । स्थण्डिलशायी ॥ बहुलमाभीक्ष्ण्ये ।३।२।८१ ॥ पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥ मनः ।२।८२॥ सुपि मन्यतेणिनिः स्यात् । दर्शनीयमानी ॥ आत्ममाने खश्च ।।२।८३ ॥ खकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् । चाणिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य ॥ कालिम्मन्या । अनव्ययस्य किम् । दिवामन्या ॥ इच। एकाचोऽम्प्रत्ययवच ।६।३।६८ ॥ इजन्तादेकाचोऽम् स्यात्स च खाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः । गाम्मन्यः । वाम्शसोः॥ स्त्रियम्मन्यः । स्त्रींमन्यः । नृ । नरम्मन्यः । भुवम्मन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य हखो मुममोरभावश्च ॥ भूते ।३।२।८४ ॥ अधिकारोऽयम् । वर्तमाने लडिति यावत् ॥ करणे यजः ।३।२।८५॥ करणे उपपदे भूतार्थाद्यजेणिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अमिष्टोमयाजी ॥ कर्मणि हनः ॥३२॥८६॥ पितृव्यघाती । कर्मणीत्येतत्सहे चेति