________________
कृदन्तम् ।
२८१
1
त्यते । शीर्षघाती ॥ लक्षणे जायापत्योष्टक् । ३।२२५२ ॥ हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायानो ना । पतिघ्नी स्त्री || अमनुष्यकर्तृके च । ३।२२५३ ॥ जायानस्तिल - कालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलंबघ्नः । शत्रुघ्नः । कृतघ्नः इत्यादि । मूलविभुजादित्वात्सिद्धम् । चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ॥ शक्तौ हस्तिकपाटयोः | ३|२२५४ ॥ हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटनश्चोरः । व पाठान्तरम् ॥ पाणिघताडघौ शिल्पिनि | ३|२/५५ ॥ हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ॥ राजघ उपसंख्यानम् * ॥ राजानं हन्ति राजघः ॥ आढ्य सुभगस्थूल पलितनग्नान्धप्रियेषु व्यर्थेष्वच्वौ कृञः करणे ख्युन् । ३।२२५६ ॥ एषु च्व्यर्थेष्वच्च्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् स्यात् । अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यङ्करणम् । अच्चौ किम् । आढ्यीकुर्वन्त्यनेन । इह प्रतिषेधसामर्थ्यात् ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ॥ कर्तरि भुवः खिष्णुखुकञ | ३|२|५७ ॥ आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आढ्यो भवतीति आढ्यम्भविष्णुः । आढ्यम्भावुकः ॥ स्पृशोऽनुदके किन् । ३।२२५८ ॥ घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् ॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगश्चयुजिकुञ्चां च |३२|५९ ॥ व्याख्यातम् ॥ त्यदादिषु दृशोऽनालोचने कञ्च । ३ २६० ॥ समानान्ययोश्चे वाच्यम् * ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः । क्सोऽपि वाच्यः * ॥ तादृशः । सदृक्षः । अन्यादृक्षः ॥ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसsपि किपू । ३।२६१ || एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे । घुसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि ॥ अग्रप्रामाभ्यां नयतेर्णो वाच्यः * अग्रणीः । ग्रामणीः ॥ भजो ण्विः | ३ |२|६२ ।। सुप्युपसर्गे चोपपदे भजेविः स्यात् । अंशभाक् । प्रभाक् || अदोऽनन्ने | ३|२|६८ ॥ विट् स्यात् । आममति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥ क्रव्ये च । ३ । २६९ ॥ अदेर्विट् पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोsस्रप आशर इति । पक्कमांसशब्दे उपपदेऽण् उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥ दुहः कञ्घश्व | ३|२|७० || कामदुधा ॥ अन्येभ्योऽपि दृश्यन्ते |३२|७५ || छन्दसीति निवृत्तम् । मनिन् कनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥ नेवशि कृति |७|२|८ ॥ वशादेः कृत इण्न स्यात् । शृ । सुशर्मा । प्रातरित्वा || विजनोरनुनासिकस्यात् | ६|४|४१ ॥ अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥ किप् च । ३।२२७६ ॥ अय
३६