________________
सिद्धान्तकौमुद्याम्
।
द्विषत्परयोस्तापेः ।३।२।३९ ॥ खच् स्यात् ॥ खचि ह्रस्वः | ६|४|९४ ॥ खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परन्तपः । घटघटी - लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥ वाचि यमो व्रते । ३ । २४० ॥ वाक्शब्दे उपपदे यमेः खच् स्याद्वते गम्ये ॥ वाचंयमपुरन्दरौ च । ६३।३।६९ ॥ वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥ पूः सर्वयोर्दारिसहोः | ३|२|४१ ॥ पुरं दारयतीति पुरन्दरः । सर्वसहः । सहिग्रहणमसंज्ञार्थम् । भगे च दारेरिति काशिका । बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥ सर्वकूलाभ्रकरीषेषु कषः ।३।२।४२ ॥ सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीषङ्कषा वात्या ॥ मेघर्तिभयेषु कृञः।३।२।४३ ॥ मेघङ्करः । ऋतिङ्करः । भयङ्करः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥ क्षेमप्रियमद्रेण च । ३।२।४४ ॥ एषु कृञोऽण् स्यात् चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥ आशिते भुवः करणभावयोः | ३|२|४५ || आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितम्भव ओदनः । आशितस्य भवनं आशितम्भवः ॥ संज्ञायां भृतृवृजिधारिसहितपिदमः | ३|२|४६ ॥ विश्वं बिभर्तीति विश्वम्भरः । विश्वम्भरा । रथन्तरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दभिः || गमश्च | ३|२|४७ ॥ सुतंगमः ॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः | ३ |२|४८ ॥ संज्ञायामिति निवृत्तम् । गमेः स्यात् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । अन्तं गच्छतीत्यन्तग इत्यादि ॥ सर्वत्रपन्नयोरुपसंख्यानम् * ॥ सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः । पन्नमिति पद्यतेः कान्तं क्रियाविशेषणम् ॥ उरसो लोपश्च * ॥ उरसा गच्छतीत्युरगः । सुदुरोरधिकरणे * ॥ सुखेन गच्छतीति सुगः । दुर्गः ॥ अन्यत्रापि दृश्यते इति वक्तव्यम् * ॥ ग्रामगः ॥ डेच विहायसो विहादेशो वक्तव्यः * ॥ विहगः ॥ आशिषि हनः | ३ | २|४९ ॥ शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः ॥ दारावाहनोऽणन्तस्य च टः संज्ञायाम् * ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वा - घाटः ॥ चारौ वा * ॥ चार्वाघाटः चार्वाघातः ॥ कर्मणि समि च ॥ कर्मण्युपपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । पदसङ्घातः ॥ अपे क्लेशतमसोः ।३।२।५० || अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥ कुमारशीर्षयोर्णिनिः । ३।२।५१ ॥ कुमारघाती । शिरसः शीर्षभावो निपा
एषु
२८०