________________
कृदन्तम् ।
२७९ वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥ हरतेईतिनाथयोः पशौ ।। २।२५ ॥ दृतिनाथयोरुपपदयो«ञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जु हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥ फलेग्रहिरात्मम्भरिश्च ।३।२६ ॥ फलानि गृह्णातीति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥ एजे: खश ।।२।२८ ॥ ण्यन्तादेजेः खश् स्यात् ॥ अरुर्द्विषदजन्तस्य मुम् ।६।३।६७ ॥ अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादिः । जनमेजयतीति जनमेजयः ॥ वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम् * ॥ वातमजा मृगाः ॥ खित्यनव्ययस्य ।६।३।६६ ॥ खिदन्ते परे पूर्वपदस्य हवः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धजहा माषाः । शर्धोऽपानशब्दः । तं जहतीति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥ नासिकास्तनयोधेिटोः।।२९॥ अत्र वार्तिकम् ॥ स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् * ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥ नाडीमुष्टयोश्च ।३।।३० ॥ एतयोरुपपदयोः कर्मणो धेटोः खश् स्यात् ॥ यथासंख्यं नेष्यते * ॥ नाडिन्धमः । नाडिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः ॥ घटीखारीखरीषूपसंख्यानम् * ॥ घटिन्धमः । घटिन्धयः । इत्यादि । खारी परिमाणविशेषः । खरी गर्दभी ॥ उदि कूले रुजिवहोः।३।२।३१ ॥ उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥ वहाभ्रे लिहः ॥३॥२॥३२॥ वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वाच्छपो लुक् । खशो ङित्त्वान्न गुणः । अभ्रंलिहो वायुः ॥ परिमाणे पचः ।।२।३३ ॥ प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥ मितनखे च ।३।२॥३४॥ मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥ विध्वरुषोस्तुदः ।।२।३५ ॥ विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥ असूर्यललाटयोहशितपोः ।।३६॥ असूर्यमित्यसमर्थसमासः ॥ हशिना नञः संबन्धात् । सूर्य न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च ।३।२॥३७॥ एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रम्पश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरम्मदो मेघज्योतिः । इह निपातनात् श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिन्धमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥ प्रियवशे वदः खच् ।३।२।३८॥ प्रियंवदः । वशंवदः ॥ गमेः सुपि वाच्यः * ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती ॥ विहायसो विह इति वाच्यम् * ॥ खच्च डिद्वा वाच्यः ॥ विहङ्गमः । विहङ्गः । भुजङ्गमः । भुजङ्गः ॥