________________
२७८
सिद्धान्तकौमुद्याम् णेव । सूत्रग्राहः ॥ वयसि च ३।२।१०॥ उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥ आङि ताच्छील्ये ।३।२।११॥ पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥ अर्हः ।।२।१२॥ अर्हतेरच् स्यात्कर्मण्युपपदे । अणोऽपवादः । पूजाऱ्या ब्राह्मणी ॥ स्तम्बकणयो रमिजपोः३।२।१३॥ हस्तिसूचकयोरिति वक्तव्यम् * ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृतीति हलदन्तादिति वा डेरलुक् । कर्णेजपः सूचकः ॥ शमिधातोः संज्ञायाम् ।३।२।१४ ॥ शम्भवः । शम्वदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शङ्करा नाम परित्राजिका तच्छीला ॥ अधिकरणे शेतेः।३।२१५॥ खे शेते खशयः ॥ पार्धादिषूपसंख्यानम् * ॥ पार्श्वभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरेण शेते उदरशयः ॥ उत्तानादिषु कर्तृषु * ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः ॥ गिरौ डश्छन्दसि * ॥ गिरौ शेते गिरिशः ॥ कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥ चरेष्टः ।।२।१६॥ अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥ भिक्षासेनादायेषु च ।३।२।१७ ॥ भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पदादिषु चरडिति पाठात् ॥ पुरोऽग्रतोऽग्रेषु सर्तेः ।३।२।१८ ॥ पुरस्सरः । अग्रतस्सरः । अग्रमणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्रे इति एदन्तत्वमपि निपात्यते । कथं तर्हि यूथं तदग्रसरगर्वितकृष्णसारमिति । बाहुलकादिति हरदत्तः ॥ पूर्वे कर्तरि ३३२॥१९॥ कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥ कृतो हेतुताच्छील्यानुलोम्येषु ।३।२।२० ॥ एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमीति सः । यशस्करी विद्या ।। श्राद्धकरः । वचनकरः ॥ दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी. किंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वयेत्तद्धनुररुष्षु ।। २॥२१॥ एषु कृअष्टः स्यात् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षाया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्येति षत्वम् । धनुष्करः । अरुष्करः ॥ किंयत्तद्बहुषु कृञोऽविधानमिति वार्तिकम् * ॥ किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीप् । किंकरी ॥ कर्मणि भृतौ ।।२।२२॥ कर्मशब्दे उपपदे करोतेष्टः स्यात् भृतौ । कर्मकरोभृतकः । कर्मकारोऽन्यः ॥ न शब्दश्लोककलहगाथावरचाटुसूत्रमनपदेषु ॥३॥ २२२३ ॥ एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥ स्तम्बशकृतोरिन् ।३।२।२४ ॥ व्रीहिवत्सयोरिति वक्तव्यम् * ॥ स्तम्बकरित्रीहिः । शकृत्करि