________________
कृदन्तम् ।
२७७
सितुः पित्रादेरियमुक्तिः ॥ कर्मण्यण् ।३।२।१॥ कर्मण्युपपदे धातोरण प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न ॥ शीलिकामिभक्ष्याचरिभ्यो णः * ॥ अणोऽपवादार्थ वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥ ईक्षिक्षमिभ्यां च * ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥ हावामश्च ।।२।२॥ अण् स्यात् । कापवादः । खर्गह्वायः । तन्तुवायः । धान्यमायः ॥ आतोऽनुपसर्गे कः ३॥२॥३॥ आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः पाणित्रम् । अनुपसर्गे किम् । गोसन्दायः ॥ कविधौ सर्वत्र संप्रसारणिभ्यो डः * ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे । आह्वः । प्रहः ॥ सुपि स्थः ॥३२॥४॥ सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विष. मस्थः । ततः स्थः ॥ सुपि तिष्ठतेः कः स्यात् । आरम्भसामर्थ्याद्भावे । आखूनामुत्थानमाखूत्थः ॥ प्रष्ठोऽग्रगामिनि ।८।३।९२ ॥ प्रतिष्ठत इति प्रष्ठो गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशवङ्गमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ८३३९७॥स्थ इति कप्रत्ययान्तस्यानुकरणम्॥ षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः । इत ऊर्ध्वं कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य संबन्धः ॥ तुन्दशोकयोः परिमृजापनुदो। २॥५॥ तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् ॥ आलस्यसुखाहरणयोरिति वक्तव्यम् * ॥ तुन्दं परिमाष्र्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः । कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् * ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् ।। महीध्रः । कुध्रः। गिलतीति गिलः ॥ प्रे दाज्ञः।।२।६॥ दारूपाजानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यादणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सुपि न कः । गोसंप्रदायः ॥ समि ख्यः ।।७॥ गोसंख्यः ॥ गापोष्टक् ।।२।८॥ अनुपसृष्टाभ्यामाभ्यां टक् स्यात्कर्मण्युपपदे । सामगः । सामगी । उपसर्गे तु सामसङ्गायः ॥ पिबतेः सुराशीध्वोरिति वाच्यम् * ॥ सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ॥ हरतेरनुद्यमनेऽच् ।३।२।९ ॥ अंशहरः । अनुद्यमने किम् । भारहारः ॥ शक्तिलागलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम् * ॥ शक्तिग्रहः । लागलग्रहः ॥ सूत्रे च धार्येऽर्थे * ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्रा
__ १ द्वयोस्तिष्ठतीति विग्रहः । एवं अम्बष्ठः । आम्बष्ठः । गोष्ठः । भूमिष्ठः । सव्यष्ठः । अपष्ठः । कुष्ठः । शेकुष्ठः । शङ्खष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । परमेष्ठः । बर्हिष्ठः । दिविष्ठः । अग्निष्ठः॥ २ मूलविभुज, नखमुच, काकगृह, कुमुद, महीध्र, कुध्र, गिल । आकृतिगणोऽयम् ॥