________________
२७६
सिद्धान्तकौमुद्याम् खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः । ब्रः संज्ञायां न । व्याघ्रादिभिरिति निर्देशात् ॥ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ।३।१।१३८ ॥ शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातिः सुखार्थः सौत्रो हेतुमण्ण्यन्तः । सातयः । वाऽसरूप. न्यायेन विपि सात् परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे चुरादिः । हेतुमण्ण्यन्तो वा । साहयः । अनुपसर्गात्किम् । प्रलिपः ॥ नौ लिम्पेर्वाच्यः * ॥ निलिम्पा देवाः ॥ गवादिषु विन्देः संज्ञायाम् * गोविन्दः । अरविन्दम् ॥ ददातिदधात्योर्विभाषा ।३।१।१३९॥ शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥ ज्व. लितिकसन्तेभ्यो णः ।।१।१४० ॥ इतिशब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुपसर्गादित्येव । उज्ज्वलः ॥ तनोतेरुपसंख्यानम् * ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यवतानः ॥ श्यायधासुसंस्वतीणवसावहलिहश्लिषश्वसश्च ३३१४१४१॥ श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तत्वासिद्धे पृथग्ग्रहणमुपसर्गे कं बाधि.. तुम् । अवश्यायः। प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आपूर्वः संपूर्वश्च । आस्रावः । संसावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः॥ दुन्योरनुपसर्गे ॥३॥१॥१४२॥ णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धकाहुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥ विभाषा ग्रहः ।३।१।१४३ ॥ णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यार्थाचुरादिण्यन्तादच् । भावः ॥ गेहे कः ।३।१।१४४ ॥ गेहे कर्तरि आहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्यागृहा दाराः ॥ शिल्पिनि ष्वुन् ।३।१।१४५ ॥ क्रियाकौशलं शिल्पं तद्वत्कर्तरि वुन् स्यात् ॥ नृतिखनिरञ्जिभ्य एव * ॥ नर्तकः । नर्तकी । खनकः । खनकी ॥ असि अकेऽने च रञ्जन लोपो वाच्यः * ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव प्वुन् । रञ्जेस्तु कुन् शिल्पिसंज्ञयोरिति कुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥ गस्थकन् ।३।११४६॥ गायतेः स्थकन् स्यात् शिल्पिनि कर्तरि । गाथकः ॥ ण्युट् च ।३।१।१४७॥ गायनः । टित्त्वाद्गायनी ॥ हश्च व्रीहिकालयोः ।।१।१४८ ॥ हाको हाङश्च ण्युट् स्यात् ब्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोति वा ॥ पुसल्वः समभिहारे वुन् ।३।१।१४९॥ समभिहारग्रहणे साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥ आशिषि च ।।११५०॥ आशीविषयार्थवृत्ते. र्धातोवुन् स्यात्कर्तरि । जीवतात् जीवकः । नन्दतात् नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशा