________________
T
सिद्धान्तकौमुद्याम् हखादिति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः। स्त्रीत्वाम्नत्वाभावः ॥
आङि चापः।७३।१०५ ॥ आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥ याडापः।७३।११३ ॥ आपः परस्य द्विचनस्य याडागमः स्यात् । वृद्धिरेचि । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥ सर्वनाम्नः स्याड्डखश्च ।७।३।११४ ॥ आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च इखः । याटोऽपवादः । सर्वस्यै । सर्वस्याः २ । एकादेशस्य पूर्वान्तत्वेन ग्रहणादामि सर्वनाम्न इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादय आबन्ताः ॥ विभाषा दिक्समासे बहुव्रीहौ ।१।१।२८ ॥ अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वीयै । दिङ्गामान्यन्तराले इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥ विभाषा द्वितीयातृतीयाभ्याम् ॥३॥११५॥ आभ्यां ङितः स्याट् वा स्यादापश्च हखः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसंख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः। द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । अम्बार्थनद्योईखः ॥ हे अम्ब । हे अक्क । हे अल्ल ॥ असंयुक्ता ये डलकास्तद्वतां हखो न ॥ हे अम्बाडे । हे अम्बाले । हे अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य । औङ आपः । आङि चापः । याडापः । इस्खनद्यापः । डेराम् । इति पञ्चापि विधयः प्राप्ताः । एवं ननिशूपृत्सु । तथाप्यनल्विधावित्युक्तेन भवन्ति । आ आबिति प्रश्लिप्य आकाररूपरस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं हलङ्यादिसूत्रेऽपि आ आप् डी ई इति प्रश्लेषादतिखटः निष्कौशाम्बिरित्यादिसिद्धेर्दीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र खाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याविधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । पद्दन्न इति नासिकाया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥ ब्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।८।२॥३६॥ ब्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निभिः । सुपि डः सीति पक्षे धुट् । चर्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोरिति ष्टुत्वं न । निट्सु । निट्सु ॥ षढोः कः सि ।८२।४१॥ षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु ब्रश्वादिसूत्रे दादेर्धातोरिति सूत्राद्धातोरित्यनुवर्तयन्ति ॥