________________
२७४
सिद्धान्तकौमुद्याम्
२६९ ॥ भोग्यमन्यत् । ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् * ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्वीकार्यः । दाभ्यः ॥ ओरावश्यके ।३।१।१२५॥ उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥ आसुयुवपिरपित्रपिचमश्च ।३।१।१२६ ॥ षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥ आनाय्योऽनित्ये ।३।१।१२७॥ आपून्नियतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः । वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥ प्रणाय्योसंमती ॥३॥१॥ १२८ ॥ संमतिः प्रीतिविषयीभवनं कर्मव्यापारः। तथा भोगेष्वादरोऽपि संमतिः । प्रणाग्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥ पाय्यसान्नायनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ।३१।१२९ ॥ मीयते ऽनेन पाय्यं मानम् । ण्यत् धात्वादेः पत्वं च । आतो युगिति युक् । सम्यक् नीयते होमार्थमनिं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽ. ऽस्मिन्धान्यादिकं निकाय्यो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥ ऋतौ कुण्डपाय्यसंचाय्यौ ।३।१।१३०॥ कुण्डेन पीयतेऽमिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥ अग्नौ परिचाय्योपचाय्यसमूह्याः ।।१।१३१ ॥ अग्निधारणार्थे स्थानविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥ चित्याग्निचित्ये च ।३।१।१३२॥ चीयतेऽसौ चित्योऽमिः । अमेश्चयनममिचित्या ॥ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।३।३।१६३॥ त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा मा भूदिति पुनः कृत्यविधिः रूयधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ॥ अर्हे कृत्यतृचश्च ।३।३।१६९॥ स्तोतुमर्हः स्तुत्यः । स्तुतिकर्म । स्तोता । स्तुतिकर्ता । लिङा बाधा मा भूदिति कृत्यतृचोविधिः । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ।।४।६८॥ एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्नामयम् गेयं सामानेन वा इत्यादि ॥ शकि लिङ् च ।३।३।१७२॥ चात्कृत्याः । वोढुं शवयो वोढव्यः । वाहनीयो वाह्यः । लिङा बाधा मा भूदिति कृत्योक्तिः ॥ लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे कृत्याश्चेति । सुत्यजम् । अहे कृत्यतृचोर्ग्रहणं च ॥
॥ इति कृत्यप्रक्रिया ॥ ण्वुल्तृचौ ।३।११३३ ॥ धातोरेतौ स्तः । कर्तरि कृदिति कर्थे । युवोरनाकौ ॥ कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कीं । गाङ्कुटेति ङित्त्वम् । कुटिता। अग्णिदित्युक्तेन ङित्त्वम् । कोटकः । विज इट् ॥ विजिता । हनस्तोऽचिण्णलोः । घातकः ।